________________
१४.
परिशिकपर्वणि ढतीयः सर्गः । विभातायां विभावयीं जम्बनामा महामनाः । स्वयं संवहति स्मोच्चैरधिनिक्रमणोत्सवम् ॥२८१॥ स्नात्वा कृत्वाङ्गरागं च सर्वाङ्गीनं च पर्यधात् । अलङ्कारान्रत्नमयान्कल्यो ऽयमिति कल्पवित् ॥२८॥ जम्बूरनादृतेनाथ देवेन कृतसन्निधिः । उद्वाह्यां नृसहस्रेण शिबिकामारुरोह च ॥२८३॥ दान विश्वजनौनं स ददानः कल्पवृक्षवत् । प्रशस्यमानो लोकेन जम्ब: काश्यपगोभूः ॥२८॥ सुधर्मखामिगणभृत्यादपद्मपविचितम् । जगाम त वनोद्देशं धाम कल्याणसम्पदाम् ॥२८५॥ युग्मम् ॥ गणभूषितोद्यानदारदेशे स ईयिवान् । याप्ययानादुदतारौत्समारादिव निर्ममः ॥ २८६॥ सुधर्मखामिनः पादानापदम्भोधितारकान् । पञ्चाङ्गस्पष्टभूपौठः स प्रणम्य व्यजिज्ञपत् ॥९८७॥ संसारसागरतरौं प्रव्रज्या परमेश्वर । मम सखजनस्थापि देहि धेहि कृपां मयि ॥२८॥ पञ्चमः श्रीगणधरो ऽप्येवमभ्यर्थितस्तदा । तौ सपरिवाराय ददौ दीक्षां यथाविधि ॥२६॥ पिनापृच्छय चान्येधुः प्रभवो ऽपि समागतः । नम्बूकुमारमनुयान्परिव्रज्यामुपाददे ॥२८॥