________________
१३ जात्याश्वकिशोरकथा ।
११६
राजापि हि स्वयं विज्ञो विज्ञायाश्वं तथैव तम् । स्वयमान मर्वाङ्ग घुसृणाविलवारिणा ॥५४॥ पुष्पपूजां वस्त्रपूजां कृत्वा तस्याथ वाजिनः । नृपतिः कारयामास लवणोत्तारणादिकाम् ॥५५॥ अचिन्तयच को ह्येनं तुरङ्गं रचितं चमः । प्रायेणापायवडलाण्येव रत्नानि भूतले ॥५६॥ यद्दा ममानुरको ऽस्ति सदा विश्रम्भभाजनम् । श्रावको जिनदासाख्यः प्रख्यातः श्रावकवतः ॥५॥ बुद्धिमान्स्वामिभक्तश्च प्रमादपरिवर्जितः । स एवेदृशरत्नम्य न्यासपात्रत्वमर्हति ॥५॥ जिनदासमथाइय सप्रमादं समादिशत् । रक्षणीयो ममात्मेवाश्वकिशोरखया ह्ययम् ॥५६॥ प्रमाणमादेश इति जिनदासो ऽभिधाय च । निन्ये तमश्वं स्वग्टहे पदातिपरिवारितम् ॥६ ० ॥ स्थानमश्चकिशोरस्य चिप्तकोमलवालुकम् । सषदं कारयामास स गङ्गापुलिनोपमम् ॥६१॥ पत्रलान्यरजस्कानि खादूनि हरितानि च । टणानि चारयामास तमश्वं स्वयमेव सः ॥ २॥ भूप्रदेश सिकतिले लोष्टकण्टकवर्जिते । मुखरज्जो स्वयं कृत्वा वेषयामास तं हयम् ॥६३॥ सुगन्धिभिश्च स्नानौयैः पानीयैरेकतप्तकैः । तं स्वयं स्वपयामास स्वयं मम्नौ यदा तदा ॥६४॥