________________
परिशियपर्वणि टतीयः सर्गः।
जम्बनामाप्यभिदधे नाहमुत्पथगाम्यहो । जात्याश्च दव देवानांप्रिये तस्य कथां श्टणु ॥४४॥
जितशत्रुः प्रतापेन वसन्तपुरपत्तने । जितशत्रुरभूद्राजा राजमानो ऽहुतश्रिया ॥५॥ तस्य चोर्वोपतेः श्रेष्ठौ श्रेष्ठो धौधनभालिनाम् । जिनदास इति ख्यातो ऽभवदिश्वामभाजनम् ॥४६॥ अन्यदा लक्षणधरावेवन्तस्यात्मजानिव । राज्ञः प्रादर्शयन्नश्वकियोरानश्वपालका ॥४॥ तदावलक्षणविदामादिदेश विशाम्पतिः । के के ऽश्वा लक्षणैः कैः कैः संपूर्ण इति शंसत ॥४८॥ एकमश्वकिशोरं ते शास्त्रोक्तैरश्वलक्षणैः । लक्षित चितिनाथाय कथयामासुरित्यथ ॥४६॥ असौ वृत्तखुरः स्तब्धसन्धिर्जङगखुरान्तरे । निर्मामजानुजाभ्यः कुञ्चितोन्नतकन्धरः ॥५०॥ पङ्कजामोदिनिःश्वासः स्निग्घरोमा पिकखनः । मल्लिकालो लधुम्तब्धश्रवणो लम्बकेसरः ॥५१॥ पञ्चभट्टो गूढवशः पृथुः स्कन्धादिमतके । उरस्थादिध्रुवावर्तदशकेनोपशोभितः ॥५२॥ बुध्नावर्तादिभिर्दुष्टैरावर्तेः परिवर्जितः । स्निग्धदन्तः किशोरो ऽयं पुष्णाति खामिनः श्रियम् ॥५३॥
॥ चतुर्भिः कलापकम् ।