________________
परिशिरापर्वणि टतीयः सर्गः ।
अबुध्धमाना तनावं बुद्धिराख्यद्यथातथम् । यथा ह्याराधितो यक्षो यथा च स ददौ श्रियम् ॥२०॥ सिद्धिर्दध्यौ च तच्छ्रुत्वा साधु साधु ममापि हि । विभवोपार्जनोपायो निर पायो भविष्यति ॥२३॥ मविशेषममुव्या हि यक्षमाराधयाम्यहम् । सविशेषा यथा सम्पदपि संपद्यते मम ॥२४॥ अथार्थसिद्धये सिद्धिर्बुद्धिदर्शितया दिशा । श्राराधयितुमारेभे यक्षमेवमहर्निशम् ॥२५॥ खटिकाधातुभिर्देवकुलमोपानमालिकाम् । यक्षस्य मण्डयामास भत्त्या विविधभक्तिभिः ॥२६॥ नित्यं खस्तिकरेखाभिर्याङ्गणमभूषयत् । भक्तिप्रकारान्कर्तव्यान्गणयन्तीव तन्निभान् ॥२॥ खयं पानौयमानीय स्वपयामास सा स्वयम् । यहं कचौधतोपास्तिनियमा प्रतिवासरम् ॥२८॥ बिल्वपत्रकरवीरतुलसौकुजकादिभिः ।। मा यक्षं पूजयामाम त्रिमन्ध्यं स्वयमाहृतैः । २८॥ एकभनोपवासादितत्परा यक्षवेश्मनि । उवासाहर्निशं यक्षाभियोग्यव्यन्तरौव सा ॥३०॥ एवमाराधितो ऽत्यन्तं स यक्षः मिद्धिमभ्यधात् । तुष्टो ऽस्मि ते महाभागे प्रार्थयख यदिच्छसि ॥३१॥ साथ विज्ञपयामास यक्षमक्षौणसम्पदम् । मत्सख्या यत्त्वया दत्तं देहि तड्विगुणं मम ॥३२॥