________________
तृतीयः सर्गः।
अथोवाच नभःसेना रचितानलिरार्षभिम् । मा स्म भूः स्थविरेव त्वं स्थविरायाः कथा यथा ॥१॥
अभूतां ग्राम एकस्मिन्बुद्धिः सिद्धिश्च नामतः । स्थविरे हे मिथासख्यौ नित्यमत्यन्तदुःस्थिते ॥२॥ तस्य ग्रामस्य च बहिः साधिष्ठानो ऽस्ति सर्वदा । प्रमिद्धो भोलको नाम यक्षः काशितवित्तदः ॥३॥ स्थविरा बुद्धिनानौ च दारिद्रुमवाटिका । सम्यगाराधयामास तं यदं प्रतिवासरम ॥४॥ त्रिसन्ध्यमपि तद्देवकुलं मार्जयति स्म सा । पूजापूर्वे च नैवेद्यं तस्मै नित्यमढौकथत् ॥ ५॥ ददामि किं तुभ्यमिति यवस्तुष्टो ऽन्यदावदत् । पाराध्यमानो नितरां कपोतो ऽपि हि तव्यनि ४६ ॥ जगाद माथ स्थविरा यदि तुष्टो ऽसि देव मे। नदेहि येन जीवामि सुखसन्तोषभागहम् ॥१॥ यक्षः प्रोवाच हे बुद्धिस्थविरे सुस्थिता भव । मत्पादमूले दौनारं लश्यसे ब दिने दिने ॥८॥ दिने दिने च दौनारं लभमाना तदादि मा । खजनान्जनपदाचाधिकद्धिः स्थविराभवत् ॥८॥ दिव्यनेपथ्यसम्भारं खने ऽपि न ददर्भ था । क्षणे क्षणे पर्यधात्तं मा राजौव नवं नवम् ॥१८॥