________________
१०७
८ विद्युन्मालिकथा। तवातर्गच्छ दद्या मे दर्शनं समयान्तरे। प्रभु समयमत्रैवातिनेष्यामि स्म मा रुषः ॥६७८॥ तं प्रबोध्य प्रवोध्यातिखिन्नो मेघरथो ऽपि हि । पुनर्जगाम कुर्यात्किं हितो ऽप्यतिजडे नरे ॥६८० ॥ विद्युन्माल्यपि संजाते द्वितीये तनुजन्मनि । अमस्त मातङ्गकुलं स्वर्गादप्यधिकं मुदा ॥६८१॥ वस्त्रभोज्यादिदौःस्थ्ये ऽपि दुःख नहि विवेद सः । तौ क्षेछौकुक्षिजौ वाली मलौलमुदलालयत् ॥ ६८२॥ ताभ्यामकाधिरूढाभ्यां प्रसवझ्या मुहुर्मुडः । गन्धोदकस्नाननिभं मूत्रस्नानममन्यत ॥६८३॥ ततर्ज सुभगंमन्या तं म्लेच्छयपि पदे पदे । चण्डालकुलदासो ऽभूत्तदासनस्तथापि सः ॥६८४॥ भाटस्नेहानुवन्धेनागत्य मेघरथः पुनः । विद्युन्मालिनमालियागदगगदया गिरा ॥६८५॥ कुलीन चण्डालकुले मा स्थाः कास्या तवेह भोः । किं हंसो मानसोत्पन्नो रहस्रोतमि खेलति ॥८६॥ यत्रोत्पत्रो ऽसि तन्मा स्म खकुल मलिनौकुरु । धूमेनेव ग्टई वहिस्तमनेन कुकर्मणा ||६८७॥ एवं प्रबोध्यमानो ऽपि नह्यागन्तुमियेष सः । न भूयो ऽप्यहमेश्यामौत्युक्त्वा मेघरथस्वगात् ॥६८८॥ अपालयचिरं राज्यं पित्र्य मेघरथो ऽप्यथ । समये चार्पयत्मनोन्यासे तमिवाखिलम् ॥६८६॥