________________
परिशिष्टपर्वणि द्वितीयः सर्गः ।
कुरूपा तत्प्रिया मापि म्लेच्छी सुतमजीजनत् । विद्यासिद्धिमिव प्राप्य विद्युन्माल्यप्यमोदत ॥ ६८॥ म्लेच्छ्यामत्यन्तमासक्त्या पुत्रप्रेम्णा विशेषतः । दुःस्वप्नवद्विसस्मार व खेचरसुखं कुधीः ॥६६८ ॥ सा विद्युन्मालिना सार्धं रममाणा यथासुखम् । । भूयो strधार चण्डालौ काणदन्तुरा | ६७० ॥
तव विद्यासंपन्नस्तत्र मेघरथो ऽभ्यगात् ।
१०६
वर्षमेकं कथमपि खभ्रातविरहातुरः ॥ ६७१ ॥ श्रहं हि स्वर्वधूकल्पविद्याधरवधूवृतः । स काण्दन्तुरक्षेच्छौ गार्हस्थ्यनरकोषितः ॥ ६७२ ॥ प्रासादे सप्तभूमे ऽहं वसायुधानबन्धुरे । श्मशानको साकीर्णे स चण्डालकुटीरके ॥ ६७३ ॥ अहं विविधविद्यर्द्धिमिध्यमानस मोहितः ।
जीर्णकर्पटसंव्यानः कदन्नप्राशनश्च सः । ६०४ ॥ विद्युन्मालिनि सौभ्राचानुरूपमिति चिन्तयन् । श्रागात्पुनर्मेघरथो वसन्तपुरपत्तनम् ॥६७५॥ चतुर्भिः कलापवं ॥ ऊचे च भ्रातरं भ्रातर्गत्वा वैतान्यपर्वते । विद्याधरसुखैश्वर्यं वर्यं किं नानुभूयते ॥ ६७॥ विलक्षहसितं कृत्वा विद्युन्माल्यप्यदो ऽवदत् । पत्नीयं बालवत्सा मे पुनर्गुर्वी च वर्तते ॥ ६० ॥ अनन्यशरणां भक्तां सपुत्रां गुर्विणोमिमाम् । नाहं वज्रहृदयस्त्वमिवोज्झितुमुत्सहे ॥ ७८||
·