________________
२०४
परिशियपर्वणि द्वितीयः सगः ।
मन्त्रयामामतुस्तौ च विद्यामाधन हेतवे । यामो भूगोचराभ्यणे विद्या तत्रैव सेत्स्यति ॥६४६॥ विद्या सिद्धी विधिश्चायमतिनौचकुलोद्भवाम् । कन्यां परिणयेवर्षावधि ब्रह्म च पालयेत् ॥६४७|| ततो गुरुननुजाय भरतार्ध ऽत्र दक्षिणे । भाजग्मतुर्दावपि तो वमन्तपुरपत्तनम् ॥६४८॥ ततश्पडानवेषेण गत्वा चाण्डालपाटकम् । प्रचक्रमाते चण्डालाराधन धोमहाधनौ ॥६४६॥ भाराधितास्तु मातङ्गाः प्रोचुरायातमत्र किम् । प्राख्यातं चिरकालो धुवयोरिह निष्ठतोः ॥६५ ० ॥ सद्भावगोपनं कृत्वा कथयामामतच नौ । चितिप्रतिष्ठानगरादागमावेह हे हिताः ॥६५१॥ मातापित भिरावां हि कुटुम्बस्य बहिष्कृतौ । इति रोषेण निर्यान्तौ भ्रमन्तौ चागताविह ॥५२॥ मातङ्गा: प्रोचिरे चास्मानाश्रित्यातिष्ठतं युवाम् । युवाभ्यां तत्प्रयच्छामः खे द्वे कन्ये यदीच्छथः ॥ ६ ॥३॥ किं त्वस्मत्कन्यके पाणिग्टहीत्यौ चेत्करिष्यथः । अमान्नात्युचितं सर्व तदनुष्ठास्यथो युवाम् ॥६५४॥ नावप्यूचनुरामेति मात्रैरपि कन्यके ।। तयोः प्रदत्ते उदाहपूर्वकं काणदन्तुरे ॥६५ ५॥ विद्युन्माली तु मातङ्गकन्यायामनिरागवान् । अभूदपि कुरूपायां न विद्यासाधनं व्यधात् ॥६५६॥