________________
८ विद्युन्मालिकथा |
मांसपेशी परित्यज्य मौनमिच्छसि दुर्मते । भ्रष्टो मौनाञ्च मांसाच्च किं जम्बुक निरौचसे ॥ ६३५ ॥ फेरुः स्माहोढभर्तारं हित्वोपपतिमिच्छसि ।
भ्रष्टा पत्युश्च जाराच्च नग्निके किं निरीक्षसे ॥ ६६ ॥ तच्छुला सुष्ठु विभ्यत्यास्तम्याः स व्यन्तरामरः । महर्द्धिकं निजं रूपं दर्शयत्वेवमब्रवीत् ॥ ६३७ ॥ पापमेवाकृथाः पापे यद्यपि त्वं तथापि हि । जिनधर्मं प्रपद्येथाः पापपङ्कजललवम् ॥६३८॥ मुग्धे हस्तिपकः सोऽहं यस्त्वया मृत्युमापितः । जिनधर्मप्रभावाच्च देवोभूतो ऽस्मि पश्य माम् ॥६३९॥ जिनधर्मं प्रपत्ये ऽहमपौति कृतनिश्चयाम् ।
तां साध्वीमन्निधौ नीत्वा स प्रव्रज्यामजिग्रहत् ॥ ६४ ॥
•
१०३
तदस्मादृग्जनानर्हान्प्रवर्तकनिवर्तकान् ।
दृष्टान्तांस्त्वमनादृत्य भुंक्ष्य वैषचिकं सुखम् ॥ ४९ ॥ जगाद जम्बूनामापि विद्युन्मालीव खेचरः । न ह्यस्मि रागग्रहिलश्चरितं तस्य तच्छृणु ॥ ६४२ ॥ अस्तीह भरतक्षेत्रे वैतायो नाम पर्वतः ।
संतो भरतार्धाभ्यां पचाभ्यामिव नीडजः ॥ ६ ४३ ॥ तत्र चास्ति पुरवरमुत्तरश्रेणिभूषणम् । गगनवलभमिति धुसदामतिवन्नभम् ॥ ४४॥ दौ विद्याधरतरुणौ प्रौतिमन्तौ महोदरौ । तत्राभूतां मेघरथो विद्युन्माली नामतः ॥ ४५ ॥