________________
१.२ परिशिरापर्वणि हितीयः सर्गः
पुंश्चल्यपि तथा चक्रे शरस्तम्बे प्रविश्य च । वस्त्राभरणमृत्सो ऽपि पारं गत्वेत्यचिन्तयत् ॥ ६२४॥ भर्तारं मारयामास येयं मय्यनुरागिणौ । क्षणरागा हरिदेव विपदे स्यान्ममाप्यसौ ॥६२५॥ इत्युपादाय तहस्त्राभरणानि स तस्करः । तां वलत्कन्धरः पश्यनश्यति स्म कुरङ्गवत् ॥६२६॥ करिणौवोद्धतकरा यथाजातेव नग्निका । जचे तं यान्तमालोक्य मां विहाय प्रयासि किम् ॥६२७॥ चौरो ऽब्रवौद्विवसनामेकां शरवणस्थिताम् । राक्षसीमिव दृष्ट्वा खां बिभेम्येव कृत त्वया ॥६२८॥ एवं वदग्खग इवोड्डौनः सो ऽगाददर्शनम् । तत्रैव तस्थौ वासिला धर्षणौ पतिर्षिणी ॥६२८॥ म हस्तिपकजीवो ऽपि देवभूयमुपेयिवान् । प्रयुक्तावधिरद्राचौता तथास्था तपखिनौम् ॥६३०॥ संबुबोधयिषुस्तां तु प्राग्जन्मइमेधिनीम् । मुखात्तमांसपेशीकं टगालं विचकार सः ॥६३ ।। इतश्च सरितस्तस्थास्तौरे नौरादहस्थितम् । मौनं भोक्नुमधाविष्ट मांसपेशौं विहाय म: ॥३२॥ तदा मौनः पुनरपि प्रविवेश नदौजलम् । उपाददै तद्विकृतशकुन्या मांसपेश्यपि ॥६३३॥ नदौतौरे शरवणनिषणा सा तु ननिका । जगाद दुःखदौनापि जम्बकं दृष्टकोतका ॥६.४॥