________________
8 कर्षककथा।
किं कारणमिति पृष्टः सार्थेभेन मुनिः स त । कथयामास महिषशुन्यादौनां कथां तथा ॥ ३५०॥ को नाम प्रत्यय इति पृच्छन्तं च महेश्वरम् । मुनिरूचे पृच्छ शुनौं प्राग्निखातं किमप्यहो ॥३५१ ॥ तथा पृष्टा शुनौ तेन निधानस्थानमंहिणा। चखान शय्यार्थमिव क्षिति जातिखभावतः ॥५२॥ उत्पन्नप्रत्ययः मो ऽथ भवोद्दिमो महेश्वरः । परिव्रज्यामुपादत्त दत्त्वा पात्रेषु सम्पदम् ॥ ३५३॥ तस्मात्प्रभव को नाम निश्चयो वदतां वर । तार्यन्ते दुर्गतिहदाद्यन्मातापितरः सुतैः ॥ ३५४ ॥
अत्रान्तरे समुद्रश्रीजम्वूनामानमत्रौत् । पश्चात्तापं मा स्म गास्वं स यथा नाथ कर्षकः ॥३५ ५॥ तथाहि पृथ्वीप्रथिते ग्रामे नाना सुमोमनि । कर्षको धनधान्यादिसमृद्धो वक इत्यभूत् ॥ ३ ॥ ६॥ प्राप्ने च वर्षासयये स कङ्गः कोद्र्वानपि । वपति स्म महारम्भः क्षेत्रे कृष्टमतौकते ॥३५७ ॥ उहतैः श्यामलदलैस्तैर्धान्यैः क्षेत्रभूरभूत् । अभिलो ठितकाचेव जातकेशोचयेव च ॥ ३ ५८॥ तत्कङ्गुकोद्रवनं वर्धमानमुदौक्ष्य सः । मुदितः काप्यगाह्रामे दविठे स्वजनातिथिः ॥३५६ ॥ वजनै जने तस्य प्रदत्ता गुडमण्डकाः । अपूर्वण तदाहारेणत्यन्तं च स पिप्रिये ॥३६ ० ॥