________________
२ कुवरदत्तकथा।
कुवेरदत्तो ऽस्ति कथमिति चिन्तयति स्म मा । कुवेरमेनासान्या सपुत्रं तं ददर्श च ॥२८४ ॥ अनघा मा शुशोचैवमहो मम सहोदरः । अकृत्यपकनिर्मग्नो वराह इव तिष्ठति ॥२८॥ इति तत्पतिवोधार्थमियाय मथुरापुरीम् । समेता मयतौभिः मा करुणारससारणिः ॥९८६॥ आर्या कुवेरदत्तापि धर्मलाभपुरःसरम् । पार्श्व कुवेरसेनायाः प्रतिश्रयमयाचत ॥२८ ७ ॥ प्रणम्य सेनाप्यवददार्य ऽहं पणसुन्दरौ। सम्प्रत्येकपतित्वेन पुनः कुलवधूरिव ॥ २८८॥ कुलौनपतिमंसर्गात्कुलस्त्रीवेष एष मे। कुलौनाचरितेनापि प्रसादाॉस्मि वः खलु ॥२८॥ तदितो महाभ्यर्ण प्रतिग्टह्य प्रतिश्रयम् । मनिधिस्था भवत मे सदेष्टा व दैवताः ॥२६॥ ततश्च मपरीवारा तस्याः कल्याणकामधुक् । कुबेरदत्ता तद्दत्तवमताववसत्सुखम् ॥२८॥ कुवेरसेनाप्यम खं तत्रागत्य दिवानिशम् । पार्यायाः पादपद्माग्रे लुठन्तममुचहुवि ॥ २६२॥ बुध्येत यो यथा जन्नुस्तं तथा बोधयेदिति। भार्या तत्प्रतिबोधार्थं तं वालमुदलापयत् ॥ २८३॥ भ्रातासि तनुजन्मासि वरस्थावरजोऽसि च । भाव्यो ऽसि पियो ऽसि पुचपुत्रो ऽसि चार्भक ॥ २९४ ॥