________________
0
.
परिशिरापर्वणि द्वितीयः सर्गः ।
अचेच पिचोः सदनं याहि भने भगिन्यसि । विवे किन्यमि दवासि तद्यथोचितमाचरेः ॥२०३ ॥ पित्भ्यां वञ्चितावेवमावां किं कुर्वहे खमः । तयोर्न दोषो ऽयमियमावयोर्भवितव्यता ॥२०॥ पितरो हि यथापत्यं विक्रीणन्ति त्यजन्ति वा । श्राज्ञापयन्यकत्ये ऽपि तथा तथ्यकर्मणे ॥२०॥ कुवेरदत्तम्तामेवमभिधाय विहाय च। पण्यभाण्डमुपादाय जगाम मथुरापुरौम् ।। २७६ ॥ तत्र च व्यवहारेण सो ऽर्थमत्यर्थमार्जयत् । उवाम च चिरं खैरं विलसन्यौवनोचितम् ॥२७॥ अन्येधुझविणं दत्त्वा रूपलावणशान्तिनौस् । कुवेरसेनां गणिकां तां कलौचकार स' ॥२८॥ कुवेरसेनया साधैं तस्य वैषयिक सुखम् । मुञानस्य सतो जज्ञे देवनाटकमौदृशम् ॥ २७६ ॥
तदा कुवेरदत्तापि गत्वा पप्रच्छ मातरम् । मातापि हि तथैवाख्यन्मञ्जूषाप्राप्तितः कथाम् ॥२०॥ सद्यो निर्वेदमासाद्य स्वकीयकथया तया। कुवेरदत्ता पात्राजौत्तपस्तेपे च दुस्तपम् ॥ १८१॥ तामूर्मिकां तु सङ्गोप्य प्रव्रजन्ती मुमोच सा । व्याहार्बोच्च प्रवर्तिन्या सहमाना परोषहान् २८२ ॥ तस्याश्चाखण्डतपसः प्रवर्तिन्युपदेशतः । पुष्पं तपोविटपिनो ऽवधिज्ञानमजायत ॥२८॥