________________
२ कुवेरदत्तकथा।
आग्रहयहिलोभूय पृच्छतस्तस्य चाम्बिका । मञ्जूषाप्राप्तितः सवीं कथयामास तां कथाम् ॥ २६२ कुबेरो ऽप्यवदन्मातः किमकृत्यमिदं कृतम् । ज्ञात्वापि युग्मजन्मानावावां यत्परिणायितौ ॥२६३॥ सैव माता वरं माता या पोषितमनौश्वरी। स्वभाग्यभाजनौ कृत्य तत्याजावां नदौरये ॥२६४ नदौरयो हि मृत्यै स्थानाकृत्यकरणाय तु । जौवितान्मरणं श्रेयो न जीवितमकृत्यकृत् ॥ २६ ५ ॥ व्याजहार जनन्येवं युवयोरतिहारिणा। रूपेणात्यनुरूपेण मोहिताः स्मो ऽल्पमेधसः ॥ २ ६ ६ ॥ तवानुरूपा नो कन्या तां विना काप्यदृभ्यत । तस्था अप्यनुरूपस्वामृते कोऽपि वरो नहि ॥ २६ ॥ पाणिग्रहणमेवैकमद्यापि युवयोरभूत् । न पुनः पापकर्मान्यत्पुम्त्रीसम्बन्धसम्भवम् ॥२६॥ अद्यापि हि कुमारस्वं कुमार्यद्यापि सा तथा । खस्ति तस्यै भ्रानभाण्डकथामाख्याय मुञ्च ताम् ॥२६॥ व्यवहाराय दिग्यात्रां चिकीर्षन्नसि सन्दर। हेमेण कृत्वा तां शौघमागच्छरसादाशिषा ॥२७॥ समागतस्य क्षमेण करिष्ये तव दारक । महोत्सवेन वीवाहमन्यया सह कन्यया ॥२७१॥ ततः कुवेरदत्तो ऽपि वदन्नोमिति धर्मधौः । गत्वा कुवेरदत्तायै तमाख्याति सा निर्णयम् ॥२७॥