________________
२ कुवेरदत्तकथा।
या मक्षिका व्याधयस्ते मधुबिन्दुस्तु यः सखे । नदै सुखं वैषयिकं तत्र रज्येत कः सुधीः ॥ १८॥
चतुर्भिः कलापकम् ॥ देवो विद्याधरो वापि यदि कूपातमुद्धरेत् । तत् किमिच्छेदथ न वा स पुमान्दैवदूषितः ॥२ १८ ॥ प्रभवः माह को नाम निमन्जन्विपदर्णवे। नेच्छेत्तरण्डसदृशमुपकारपरं नरम् ॥२२॥ जम्बूरुवाच तदहमपारे भवसागरे । किं निमन्जामि गणवे सत्यपि तारके ॥ २२१॥ प्रभवो ऽभिदधे भात: स्नेहलो पितरौ निजौ । अनुरकाश्च राहिणणैः कथं त्यच्यसि निठुरः ॥ २ २ २ ॥ जम्वूरूचे च को बधुनिर्बन्धो ऽबन्धुरप्यहो । कुवेरदत्तवयस्मात् कर्मणा खलु बध्यते ॥२२३॥ ___ तथाहि मथुरापुर्यामेकाभूगणिकोत्तमा । नाना कुवेरसेनेति सेनातल्या मनोभुवः ॥२२४॥ सा च प्रथमगण नितान्तं खेदिता सती । वैद्यस्य दर्शिता मात्रा क्लेशे हि शरणं भिषक् ॥ २२५ ॥ मायुस्सन्दादिना वैद्यन्तां विज्ञाय निरामयाम् । उवाच नाम्या रोगो ऽस्ति किं वेतत् क्लेशकारणम् ॥२२६॥ अम्या हि युग्ममुत्पन्नमुरे ऽस्ति सुदुर्वहम् । खेदस्तद्धेतको भावी स पुनः प्रमवावधिः ॥ २२ ॥ माताप्युवाच तां वत्से गर्भ ते पातयाम्यहम् । प्राणापायप्रतिभुवा रक्षितेनापि तेन किम् ॥२२८॥