________________
परिशिष्ठपर्वणि द्वितीयः सर्गः। वेश्योचे वस्ति गर्भाय सहिये क्लेशमष्यहम् । सूकरौ सहपत्यसूः सापि जीवति ॥२२६॥ गर्भल्लोश महित्वा च समये गणिकापि सा । दारकं दारिका चापि भ्रातभाण्डे अजीजनत् ॥२३॥ माता प्रोवाच गणिकामपत्ये वैरिणौ तव । यकाभ्यामुदरस्वाभ्यां मृत्युद्वारे ऽसि धारिता ॥२३१॥ युग्मं स्तनन्धयमिदं भावि यौवनहत्तव । वेश्याश्च यौवनाजीवा नौववद्रक्ष यौवनम् ॥२३२॥ उदरात्पतितं युग्ममिदं वत्से पुरोषवत् । वहित्याजय मा मोहं कार्पोरेष क्रमो हि नः ॥२३३॥ वेश्योचे यद्यपि ह्येवं तथाप्यम्ब विलम्ब्यताम् । दशाहं यावदेतौ च दारको पोषयाम्यहम् ॥२३४ ॥ कथंचिदप्यनुज्ञाता सा मात्रा पणसुन्दरौ। स्तन्यदानेन तौ वातावहर्निशमपोषयत् ॥२३५॥ एवं च वालको तस्याः पालयन्या दिवानिशम् । कालरात्रिप्रतीकाशमेकादशमभूद्दिनम् ॥२३६॥ कुवरदत्तकुवेरदत्तानामाङ्किते उभे । मुद्रिके कारयित्वा च तदङ्गुल्यो धत्त सा ॥२३७॥ तनाकारयद्दारपेटां बुद्ध्या पटौयसौ।। रत्नेश्च पूरयित्वा तां तत्र तो वालको न्यधात् ॥२३८॥ पेटां प्रावाहयत्तां च प्रवाहे यामुने खयम् । जगाम निरपायं च मा तरन्तौ मरालवत् ॥ २३॥