________________
जम्बूखामिविवाहा। ततस्ताभिः कुमारीभिस्तवामित्वा सहाष्टभिः । जम्बूकुमारः प्रत्यैच्छत्कौतुकोदाहमङ्गलम् ॥१५३॥ ततश्च लग्नवेलायां गला चतरिकान्तरे । आर्षभिः पर्यणेषोत्ताः पित्रोरनुनिनौषया ॥१५४॥ तारामेखकके हृष्टा कौतुकेषु ससम्ममा । संतष्टा मङ्गलावर्त मधुपर्के स्मितानना ॥१५५॥ यौतके सावधाना च कृतिन्यञ्चलमोक्षणे । वाध्यापिता प्रणमे ऽङ्कारोपणे ऽत्यन्तनिता ॥१५॥ अपत्योहाहकल्याणसुखमित्याप धारिणौ । स्थः पुरन्ध्यो हि नौरभमुदो ऽपत्ये विवाहिते ॥१५॥
त्रिभिर्विशेषकम् ॥ विवाहानन्तरं तामां बन्धूनां च वरस्य च । यौतकं तदभूद्येन सौवर्णः क्रियते ऽचलः ॥१५८॥ ततो मङ्गलदीपेन समाजमहचारिणा । गायन्तीभिः कुलस्त्रीभिः कलं धवलमङ्गलम् ॥१५६ ॥ पुरो मङ्गलवार्यश्च वाद्यमानैः कस्लस्वरम् । मगोतकेन भवता दूर्यत्रयमनोरमम् ॥१६॥ हष्टेज्येष्ठः कनिष्ठेश्च बन्धुभिः पार्श्वयायिभिः । जम्बूर्जगाम वं धाम ताभिरूढाभिरावृतः ॥१६१॥
त्रिभिर्विशेषकम् ॥ श्रादितो वन्दितवतां सर्वज्ञं कुलदेवताम् । वधूवराणमभवदथ कङ्कणमोक्षणम् ॥१६॥