________________
जम्बखामिविवाहः।
५५
इत्यार्षभिलियित्वा रथ वक्र दूव ग्रहः । प्रदेशं गणमृत्पादसनाथं तं पुनर्ययौ ॥ ११ ॥ सुधर्मखामिनं जम्बूरिति नत्वा व्यजिज्ञपत् । थावन्नौवं ब्रह्मचर्य प्रतिपन्नो ऽस्म्यहं त्रिधा ॥१११॥ अनुज्ञातो भगवता नियमं प्रतिपद्य तम् । हर्षवानार्षभिर्धाम जगामाकामविक्रियः ॥११२॥ पित्रोच कथयामाम यदहं गणझन्मुखात् । सर्वज्ञोपज्ञमश्रौषं धर्म कर्मक्षयोषधम् ॥ ११३॥ अनुजानौत मां पूज्याः परिव्रज्यार्थमुत्मुकम् । जन्तूनामेष समारः कारागारनिभः खलु ॥ ११४॥ रुदन्तौ तौ च पितरावूचतर्गइदखगै । मा भरकाण्डे ऽस्मदाशालतोन्मूलनमारुतः ॥११५॥ चिन्तयामो वयमिद सवधूको भविष्यसि । द्रक्ष्यामः पौत्रवदन दृक्करवनिशाकरम् ॥ ११६॥ प्रव्रज्याया न ममयो विषयाई ऽत्र यौवने । एतस्यो चितमाचारं कि नेच्छमि मनागपि ॥११॥ यदि वात्याग्रहो वत्स प्रव्रज्याविषये तव । तथापि किंचिन्मन्यस्व वय हि गुरवः खलु ॥११८॥ वत्साष्टौ कन्यकास्तुभ्यमम्माभिः सन्ति या वृताः । कृत्वा पाणिग्रहीतास्ताः परयोदाहकौतुकम् ॥११६॥ एवं कृत्वा कुमार व निःप्रत्यूह परिव्रजेः । वामनु प्रवजिव्यामः कृतार्था वयमष्यथ ॥ २०॥