________________
5 8
परिशिपर्वणि द्वितीयः सर्गः ।
तथेति प्रतिपन्ने च सुधर्मखामिनापि हि । अधिरुह्य रथं जम्बनगरदारमाययौ ॥६६॥ तदाभुच्च पुरद्वारं तभाश्वरथाकुलम् । पतितस्य तिलस्थापि भूप्राप्ति भवद्यथा ॥१०॥ इति चाचिन्तयन्जम्बू: पुरद्वारानयैव चेत् । प्रवेशाय प्रतौक्षिष्ये तत्कालातिक्रमो भवेत् ॥११॥ सुधर्मस्वामिनं तत्रागमय्य मदन प्रति ।। गन्तुं पक्षीबुभ्रषोम न स्थातुमिह युज्यते ॥१०२॥ तद्विशाम्यपरेणैव द्वारेण त्वरथरथम् । उत्सुकस्य वरं श्रेयानन्योऽध्वा न प्रतीक्षणम् ॥१० ३॥ इति यावद्ययौ द्वारान्तर त्वरितमार्षभिः । ददर्श तावत्तत्रापि वन सज्जितयन्त्रकम् ॥१०॥ वोपरिष्टाद्यन्तेषु लम्विताश्च महाशिला: । ददर्श गगनभश्यदज्रगोलकसन्निभा ॥१० ५॥ दध्यौ चैवं परचक्रभयादौरापक्रम । तदेतेनापि हि द्वारेपानर्थबहुलेन किम् ॥१० ६॥ गच्छतो मे ऽध्वनानेन शिलोपरि पतेद्यदि । तदस्मि नाहं न रथो न रथ्या न च मारथिः ॥१० ७॥ एवं च मृत्युमासाद्याविरतो दुर्गतिं लभे । प्राणिनां हि कुमृत्यूनां सुगतियामपुष्पवत् ॥१८॥ मा भूवं स्वार्थतो भ्रष्टो व्याघुट्य पुनरप्यहम् । भवामि श्रीसुधीहिपद्मसेवामधुवतः ॥१८॥