________________
परिशिष्टपर्वणि द्वितीयः सर्गः ।
धारिणौषभदत्तो दत्तहस्तावलम्वनः । गिरिमारोपयामास तत्मुखेन शनैः शनैः॥ ३३ ॥चतुर्भिकलापकं ॥ तत्र ऋषभदत्तो ऽपि धारिण्याश्चित्तहारिणीम् । अगुल्या दर्शयामास गिरेरुद्यानसम्पदम् ॥३४॥ मातलिङ्गौरिमाः पश्य फलप्रारमारवामनाः । तात्रैश्च पुष्पैर्विश्रान्तसन्ध्यामा दव दाडिमौः ॥ ३५ ॥ मृदौकामण्डपाः सन्ति दुर्गाण्यकत्विषामपि । नृत्यत्केकिकलापाभदलाम्तालद्गुमा अमौ ॥३६॥ पुष्यजातय एताच मिथः सौरभलम्भनैः । खाजन्यं घोषयन्तौह रोलम्बतमुलच्छलात् ॥३७॥ जम्बकदम्बमाकन्दपारिभद्रादिभिर्दुमैः । छायया चोलकमसौ संव्यायित इवाचलः ॥३८॥ ऋषभस्तत्र चापण्यट्राकवेचरमिवागतम् । सिद्धपुत्रं यशोमित्र श्राद्ध बन्धुमिवात्मनः ॥३६॥ ततश्च ऋषभः श्रेष्ठौ सिद्धपुत्रमवार्त्तयत् । माधर्मिको ऽसि खलु मे तदाख्याहि व यास्यसि ॥४०॥ सो ऽप्याख्यदस्मिन्नुद्याने शिष्यो ऽस्ति चरमार्हतः । पञ्चमः समवसृतः सुधर्मा गणमृत्सखे ॥४१॥ तद्वन्दनार्थं यास्यामि यदि वस्तद्विवन्दिषा । त्वरध्वं यूयमपि तद्धांग्रेगर्भवाम्यहम् ॥४२॥ ओमित्युत्का दम्पतौ तौ तेनैव सह चेलतुः । चयो ऽप्यथ ययुः स्थानं सुधर्मखामिपावितम् ॥४३॥