________________
88
जम्बूखामिविवाहः।
यथावबादशावर्तवन्दनेन त्रयो ऽपि ते । सुधर्मस्वामिनं भत्त्या वन्दित्वा न्यषदन्पुरः ॥४४॥ सुधर्मस्वामिनो धर्मोपदेशपरमामृतम् । ते बद्धाञ्जलय: कर्णाञ्जलिभिर्भशमापपुः ॥ ४ ५॥ सिद्धपुत्रश्च समये पप्रच्छ गणमृद्वरम् । मा जम्बू: कौदृशौ जम्बूद्रौपः ख्यातो यदाख्यया ॥४६॥ तामाख्यगणमृज्जम्बू जात्यरत्नमयाकृतिम् । तन्मानं तत्प्रभावं च तत्वरूपमथापरम् ॥४७॥ तदा च लब्धावसरा धारिणौ गणमृद्दरम् । पप्रच्छ किमहं पुत्रं जनयिष्यामि वा न वा ॥४८॥ सिद्धपुत्रो ऽवदन्न त्वं सावधं प्रष्टुमर्हसि । जानन्तो ऽपि हि सावधं नह्याख्यान्ति महर्षयः ॥४८॥ जिनपादोपदेशेन निमित्तज्ञानपण्डितः । तवाहमेव कल्याणि कथयिष्याम्यटः श्टण ॥ ५० ॥ धौरखभावो मनमा कायेन च पराक्रमौ । निषेदिवाशिलोत्सङ्गे सुधर्मा गणमृत्त्वया ॥५१॥ . सुतजन्म यदप्रच्छि तत्खप्ने सिंहमङ्कगम् । भने द्रक्ष्यस्यथो कुक्षौ सतमिहं धरियमि ॥५२॥ युग्मम् । श्राख्यातजम्बूतस्वगुणरत्नमयश्च ते । जम्वनामा सुतो भावौ देवताकृतमनिधिः ॥५३॥ धारिण्यभिदधे जम्बूदेवतो.पूर्वकम् । करिव्ये अष्टोत्तर ताचामानानां शतं कृतिन् ॥५४॥