________________
परिशिष्ठपर्वणि द्वितीयः सर्गः ।
धारिणौ चिन्तयामास निरपत्या परेद्यवि । धत्ते जन्म ममापुत्रं नैष्कच्यमवकेशिवत् ॥११॥ शैत्यमुत्पादयन्नङ्गे सुधारम इवोच्चकैः । रमते तनुजन्माङ्के धन्यानामेव योषिताम् ॥१२॥ ग्टहवामो हि पापाय तत्रापि सुतवर्जितः । तदेतत्वल्वलवणकुभोजननिभं मम ॥१३॥ किं चिन्ताविधुरामौति पत्या पृष्टा नु धारिणौ । दुःखं न्यवेदयत्तस्मै तन्मनाममधारितम् ॥१४॥ पुत्रचिन्तोद्भव दुःखं सा पत्यौ यद्यपि न्यधात् । तथापि न क्षौणमझदभवत्प्रत्युताधिकम् ॥१५॥ नित्यं हृदयशल्येन तेन दुःखेन धारिणौ । कृशतां कलयामास द्वितीयेन्दुकलातुला ॥१६॥ विसिस्मारयिषुर्दुःखं तत्तस्याः पतिरन्यदा । उवाच स्नेहजलधिस्रोतःसन्निभया गिरा ॥१७॥ यामो ऽद्य वैभारगिरिं तत्रोद्याने कृशोदरि । रमामहे रम्यतया नन्दनोद्यानमन्निभे ॥१८॥ धारिणौ पतिवाचं तां तथेति प्रत्यपद्यत । मान्या हि पतिवाग्दाखविस्मारश्च भवविति ॥१६॥ ततश्चर्षभदत्तो ऽपि सद्यः सज्जीकृते रथे । आररोह तया हमरोमकोमलवालिके ॥२०॥ अपि सयोजितार्वाणमनर्वाणं महारथम् । अधिरूढ़ौ दम्पती तौ प्रास्थिषातां गिरिं प्रति ॥२१॥