________________
.
परिशिरापर्वणि प्रथमः सर्गः ।
शिवस्तदडतं श्रुत्वा गत्वावन्दत तं मुनिम् । निषसाद च तत्पादपद्मान्ते राजहंसवत् ॥ ४२०॥ चतुर्दशानां पूर्वाणामाकरः सागरो ऽपि हि । शिवस्य सपरौवारस्याचख्यौ धर्ममाईतम् ॥१२८॥ विशेषतश्च समारामारतां तम्य धीमतः । गमयामास स मुनिर्मनसि स्फटिकामले ॥४२६॥ शिवो ऽपृच्छच्च तमृषि किं प्रारमवभवः प्रभोः । स्नेहो मे पश्यतो यत्त्वां हो ऽयमधिकाधिकः ॥४३ ० ॥ ज्ञात्वा चावधिनाचख्यौ मुनिस्व पूर्वजन्मनि । कनिष्ठो ऽभूर्मम भ्राता प्राणभ्यो ऽप्यतिवल्लभः ॥४३१॥ मया प्रव्रजितेन त्वमनिच्छन्नपि हि व्रतम् । उपायेन ग्राहितो ऽसि परलोकहितेच्छया ॥४३॥ अभूव च सुरावावां सौधर्म परमर्द्धिको । कुमुदेन्दोरिव प्रौतिस्तत्राप्यभवदावयोः ॥ ४ ३ ३॥ भवे ऽस्मिन्वौतरागो ऽह स्खे परे वा समानदृक् । त्व, त्वद्यापि सरागत्वात्यारावस्नेहभाग्मयि ॥४३ ४ ॥ शिवो ऽवतादानाद्देवो ऽभूवं पुराण्यहम् । तदिहापि भवे पूर्वभववद्देहि मे व्रतम् ॥४३५॥ आपच्च्य पितरौ यावदायामि व्रतहेतवे । पूज्यास्तावदिहैवाध्वं यूयं मयि कृपालवः ॥४३६॥ गत्वा शिवकुमारो ऽपि पिटपादाव्यजिज्ञपत् । अद्य सागरहत्तः शुश्रुवे देशना मया ॥४३०॥