________________
३५
जम्बूखामिपूर्वभवः । ग्राहितो ऽसि व्रतं भात्रा छद्मनापि हितैषिणा ।। तमप्यनाप्तं मा मंस्था मयि पापखनौ रतः ॥३७२॥ तदद्यापि निवर्तख गुरुपादाननुब्रज । मयि रागत चाघमालोचय तदन्तिके ॥३०३॥ यावदेवं भवदेवं नागिला भृशमन्वशात् । ब्राह्मण्या दारकस्तावत्तत्रागामुनपायमः ॥ ३ ७ 8 ॥ ऊचे च पायम भुक्त यन्मयाद्य सुधोपमम् । तहमिव्याम्यह मातरधो धारय भाजनम् ॥३७५ ॥ निमन्त्रितो ऽहमन्यत्र लश्ये तत्र च दक्षिणाम् । अवान्तपायसो मातीनं शक्ष्यामि नो पुनः ॥३०६॥ श्रादाय दक्षिणामत्रागतो भूयो ऽपि पायसम् । वयं वान्तं स्वयं भोक्ष्य का हौः खोच्छिष्टभोजने ॥६७७॥ ब्राहाण्युवाच वान्ताशी जुगुण्यस्व भविष्यसि । अलं जुगुपनौयेन कर्मणानेन दारक ॥३७८॥ तच्छ्रुत्वा भवदेवो ऽपि निजगादेति हे बटो। त्वं भविष्यसि वान्ताशौ निकृष्टः कुक्करादपि ॥३७६॥ नागिलोवाच तमृषि यद्येवं वेसि वक्षि च । तन्मामुदम्य किमिति भूयो ऽप्युपवुभुक्षसे ॥३८॥ मांमासृगस्थिविणसूत्रपूर्णाहमधमाधमा । वान्तादपि जुगुस्यास्मि मामिच्छन् किं न मनसे ॥३८१॥ पश्यस्यट्रो चनदग्नि न पुनः पादयोरधः । यत्पर शिक्षयस्येवं न खं शिक्षयसि स्वयम् ॥३८॥