________________
परिशिष्ठपर्वणि प्रथमः सर्गः ।
सूरिणा भत्रदेवो ऽपि पप्रच्छे किं व्रतार्थमि । मा भुधाता मृषावादौत्येवमित्यवदत्स तु ॥३३८॥ भवदेवस्तदैवाथ पर्यव्राज्यत सूरिभिः । साधुभ्यां सहितो ऽन्यत्र विहाँ च न्ययोज्यत ॥३४ ० ॥ भवदेवः किमद्यापि नायात इति चिन्तया । खजनाः पृष्ठतो ऽभ्येत्य भवदत्तं बभाषिरे ॥३४१॥ भवदेवोऽन्वगाद्युमान्प्रियां हित्वार्धमण्डिताम् । तन्मुदे किं त्वनायाते तस्मिनौवन्मृता वयम् ॥३ ४ २॥ खिद्यते चक्रवाकौव मा युक्निविधवा वधूः । विश्राम्यति न तस्याश्च नयनाम्बु सिराम्बुवत् ॥३४३॥ एकाक्यस्माननाच्य भवदेवः क्वचिद्ब्रजेत् । इति स्वप्ने ऽप्यसम्भाव्यं गतश्च क्वापि किं ह्यदः ॥३४४॥ नष्टस्त्रानिव ग्रहिलान्भवदेवमपश्यतः । 'अस्माननुग्रहाण कथय क स ते ऽनुजः ॥३४५॥ धर्नादच्छुरनुजस्योचे मिथ्याप्यथो मुनिः । थात अायातमात्रो ऽपि न विद्म' स ययौ क्वचित् ॥३४६॥ गतो ऽन्येनाध्वना किं स इति जल्यन्त प्राश ते । प्रत्यावर्तन्त दौनाम्या दस्युभिर्मुषिता इव ॥३४७॥ तां नवोढां हृदि ध्यायन्भ्रामभक्त्यैव केवलम् । प्रव्रज्यां भवदेवो ऽपि मशल्यां पर्यपालयत् ॥३४८॥ महर्षिर्भवदत्तो ऽपि कालेन बढ़नेयुषा । विपेदे ऽनशनं कृत्वा सौधर्म च सुरो ऽभवत् ॥३४६॥