________________
परिशिष्टयर्वणि प्रथमः सर्गः ।
म भ्रादर्शनोत्तालः कितवो जयवानिव । द्रागदस्थाविहायार्धमण्डितामपि वल्लभाम् ॥३१०॥ हित्वार्धमण्डितां कान्तां न गन्तुमुचितं तव । तस्याः सखौनामित्युक्ति स एड व नाश्टणोत् ॥३१८॥ माग्रहं वारयन्तौनां तासां चेत्युत्तरं ददौ । कृत्वा गुरुप्रणिपातं पुनरेव्यामि वालिकाः ॥३१८॥ भवदेवस्ततः स्थानात्लवमानः प्लवङ्गवत् । अभ्येत्य भवदत्तर्षि तत्र स्थितमवन्दत ॥ ३२०॥ वन्दित्वोत्थितमावस्यानुजस्य इतभाजनम् । मुनिः श्रामण्यदानाय सत्यंकारमिवार्पयत् ॥३२१॥ भवदत्तम्ततो ऽगारादनगारशिरोमणिः । निर्जगाम धियां धाम मनाग्भ्रातरि दत्त, क् ॥३२२॥ भवदेवो ऽपि तत्सर्पिर्भाजन भारयन्करे । अन्वगाभवदत्तर्षि तत्पदाम्भोजषट्पदः ॥३२३॥ अन्चे ऽपि बहवो नार्यो नराश्च भावदेववत् । अन्वयुर्भवदत्तर्षिमुर्मिप्रमदहूदाः ॥३२४॥ मुनिन कंचियसृजन्मनौनामुचितं ह्यदः । अविसृष्टाच मुनिना न व्यावतिरे जनाः ॥३२५॥ दूर गत्वा च निर्विलास्त वन्दित्वा महामुनिम् । खयमेव व्याजुघुटुरादौ नार्यो नरास्ततः ॥३२६॥ भवदेवस्तु भद्रात्मा चिन्तयामासिवानिदम् । अप्यविसृष्टा व्याघुटन्त्वेते नैते हि मोदराः ॥१२॥