________________
परिशिपर्वणि प्रथम सर्गः।
यावत्प्रत्युपकाराय क्षमौभृतो ऽस्मि यौवने । देवादिहागम तावत्यापो ऽहमजितेन्द्रियः ॥२२६॥ पितरानृण्यभानाहं भवाम्येकेन जन्मना । येनाहं सोढकष्टेन पूतरः कुञ्जरीकृत' ॥२३॥ स एवं चिन्तयन्नेव गत्वा राजानमब्रवीत् । देवाहं तातपादानां भृशमुत्को ऽस्मि दर्शने ॥९३१॥ राजा पोवाच हे भ्रातः पिता हि सम आवयोः । तत्याददर्शनोत्सुक्यं तवेवास्ति ममापि तत् ॥२ २२॥ राजा च युवराजश्च ततस्तौ सपरिच्छदौ । तदाश्रमपदं तातपादालंकृतमीयतुः ॥२ ३३॥ दावप्युत्तेरतुर्यानादूचे वल्कलचौर्यदः । दृष्ट्वा तपोवनमिदं राज्यश्रौस्तृणवन्मम ॥२३४॥ सरोवराणि तान्येतान्यक्रौड यत्र हंसवत् । ते ऽमी द्रुमाः कपिरिवाखादिषं यत्फलान्यहम् ॥२३॥ ते ऽमी से भातर दव पांसुक्रौडासखा मृगाः । महिय्यस्ता इमा मादनिभा यासामपां पयः ॥२३६॥ खामिवने सुखान्यस्मिन्कियन्ति कथयाम्यहम् । अप्येक पिढशुश्रूषासुख राज्ये कुतो मम ॥२३७॥ तत्राश्रमे विविशतुर्भातरौ तावुभावपि । तातं चाये ददृशतर्नयनाम्भोजभास्करम् ॥२३८॥ उवाच सोमचन्द्रर्षि प्रणमन्मेदिनीपतिः । प्रसन्नचन्द्रस्ते सूनुस्तात त्वां प्रणमत्यमौ ॥२३८ ॥