________________
परिशिष्ठपर्वणि प्रथमः सर्गः ।
सा राज्ञो वाग्जनश्रुत्या पानौयमिव कुल्यया । कर्णालवालं वेश्यायास्तस्यास्वर्णमपूरयत् ॥२ ० ०॥ प्रसन्नचन्द्रं राजानं साथ गत्वा कृताञ्जलिः । वेश्या विज्ञपयामास धाोशष्टप्रगल्भवाक् ॥२०८॥ पुरा मे देव दैवजो ऽकथयद्यस्तवौकसि । ऋषिवेषो युवाभ्येति दद्यास्तस्य निजां सुताम् ॥२६॥ ऋषिवेषो युवा को ऽपि गोवन्न व्यवहारवित् । अभ्यागान्महे सो ऽद्योग्राहितः सुतया खथा ॥२१ ॥ नदिवाहोत्सवे देव गौतवाद्यादि महे । दुःखिनं त्वां न जानामि यद्यागो मे सहस्व तत् ॥ २११ ॥ अथादिशन्नरावाजा कुमारं दृष्टपूर्विणः । उपलक्षयितुं ते ऽपि गलोपालक्षयंश्च तम् ॥२१॥ अथैत्य ते नरेन्द्राय तं तथैव व्यजिज्ञपन् । राजापि दृष्टसुखप्न इवात्यर्थममोदत ॥२ १३॥ तया समन्वितं वध्धा करेणुमधिरुह्य च । आनिनाय निजं वेश्म राजा वल्कलचौरिणम् ॥२१४॥ अखिलव्यवहारज्ञो राज्ञाकारि क्रमेण सः । पशवोऽपि हि शिक्ष्यन्ते नियुक्तैः किं पुनः पुमान् ॥ २१५॥ तस्मै राज्यविभागं च दत्त्वा राजा कृतार्थभूत् । राजकन्याश्च तेनोदवाहयत्वर्वधूपमाः ॥२१६॥ वधूभिः सहितः ताभिरखण्डितसमौहितः । रेमे वल्कलचौर्युचैः सुखाधिजलकुञ्जरः ॥२१०॥