________________
जम्बूखामिपूर्वभवः।
अवीवदच्च मङ्गल्यान्यातोद्यानि पणाङ्गना । किमेतदिति सम्भान्तः प्यधात्कौँ च सोमभूः ॥१८६॥
मुनिवेषजुषो बेश्याः कुमारानयने गताः । यथा गतास्तथैवैत्य तदोर्वोशं व्यजिज्ञपन् ॥१८॥ तैस्तैः प्रकारैः प्रालोभि स कुमारो वनेचरः । दहागन्तुंच सङ्केतमस्माभिः सममग्रहौत् ॥१८८॥ अप्यायान्तं तदा दूरे दृष्ट्वा तत्पितरं वयम् । तस्य शापभयानष्टाः कातराः स्त्रौखभावतः ॥१८॥ मो ऽस्मान् गवेषयन्नस्मत्प्रलोभनवशंवदः । भ्रमन्वनादनं गामौ न गामी पितुराश्रमम् ॥९० ० ॥ अनुशिश्ये विशामौशः किमकार्षमहं जडः । वियोजितौ पितापुत्रौ मया प्राप्तश्च नानुजः ॥ २ ० १॥ पिनपात्पिरिभ्रष्टो जौविष्यति कथं नु सः । कियञ्चिरं जीवति हि मौनो नौराबहिष्कृतः ॥२०२॥ एवं दुःखादरतिभागभुशमिलापतिः । उद्देलशयने ऽप्यस्यान्मौनः स्तोक इवाम्भसि ॥२ ० ३ ॥ वेश्यायाः मदने तस्यास्तदा च मुरजध्वनिः । कर्णयोरवनौभतरप्रियातिथितां ययौ ॥२०॥ जचे च राजा नगरं सर्व महुःखदुःखितम् । लोकोत्तरसुखौ को ऽयं यस्याग्रे सुरजध्वनिः ॥२ ० ५॥ खार्थनिष्ठो ऽथवा सर्वो मृदङ्गध्वनिरेष हि । सुटे कस्यापि मम तु मुजराघातसन्निभः ॥२० ६ ॥