________________
जम्वूखामिपूर्वभवः। चौरो ऽप्युवाच घातो हि वैरिणो ऽपि प्रशस्यते । मामजेषोः प्रहारेण तेन तुष्टो ऽस्मि मानव ॥ १७४ ॥ विपुलं धनमत्रास्ति मदीयं तहहाण भोः। त्रयो ऽप्यारोपयामासुरथ तविणं रथे ॥ १७५॥ क्रमेण पोतनं प्राप्तो रथौ वल्कलचौरिणम् । प्रोवाच प्रेमितो यस्ते पोतनाश्रम एष सः ॥१७६ ॥ किंचिच्च द्रविणं तस्मै रथौ तापमसूनवे । प्रददौ मार्गसुहदे समयमानो जगाद च ॥१७७॥ अमुभिन्नाश्रमपदे न विना द्रव्यमाश्रमः । तदाश्रमार्थों कस्मैचिढ्याट्रव्यमवक्रये ॥१७८॥ किमत्र यामि याम्यत्र कि वेति मकले पुरे । उत्प्रेक्षमाणो हाणि बभ्राम मुनिपुङ्गवः ॥१७६।" नराणामथ नारीणामृषिबुद्ध्या स मुग्धधीः । अभिवादनवाल उपाहास्यत नागरैः ॥१८॥ पुरे भ्रमन्नथैकस्या वेश्यायाः स निकेतने । विवेश त्वरित चापमुक्तः शर वास्खलन् ॥१८१॥ स तमाश्रमं मेने वेश्यां मुनिममन्यत । इति तामप्युवाचैवं तात त्वामभिवादये ॥१८२॥ इति च प्रार्थयांचक्रे ममर्पय ममोटजम् । प्रमुथ्यावक्रये द्रव्यं महर्ष रह्यतामिदम् ॥१८३॥ त्वदीय उटजो ह्येष ग्टह्यतामित्युदौर्य सा । तदङ्ग संस्कारकते दिवाकीर्तिमजूहवत् ॥१८४॥