________________
जम्बूस्वामिपूर्वभवः । तत्र वामग्टहे प्लुष्टधपगन्धाधिवामितः । प्रेयानिव लगन्नङ्गे खेचरीणां मुदे ऽनिलः ॥२१॥
श्रेणीकृतयशास्तत्र श्रेणिको ऽभून्महीपतिः । नेतेव दक्षिणा: चोरें लक्ष्मौ चावर्जयन् गुणैः ॥२२॥ सम्यकरत्नोद्योतेन हृदि तस्य प्रसर्पता । मिथ्यात्वतिमिरस्थावकाशो नाभन्मनागपि ॥२३॥ कर्णपेया सुधेवान्या धुमदां ददतौ मुदम् । मध्येसुधर्म तत्कौर्तिरप्परोभिरगौथत ॥२४॥ केन्द्रे दुष्टग्रह व तस्मिन्प्रातीयवर्तिनि । अनर्थ कल्लयामासुः परितः परिपन्थिनः ॥२५॥ अखण्डशामने राज्ञि तस्मिन्नाखण्डस्लोपमे । एकातपत्रैवाभूलू?रिवैकनिशाकरा ॥२६॥ बौदार्यधैर्यगाम्भीर्यशौर्यप्रभृतयो गुणाः । सामुद्रलक्षणानौव जन्मतस्तस्य जज्ञिरे ॥२७॥ . विधानस्य वसुधामेकच्छत्रां महौजसः । नस्थाज्ञा वज्रिणो वज्रमिव नास्वति केनचित् ॥२८॥
एकदा तत्पुराभ्वर्ण चैत्ये गुण शिताइये । सुरासुरपरीवारः श्रीवौरः समवासरत् ॥२८॥ रूप्यखर्णमणिमयैः प्राकारभूषितं त्रिभिः । चक्रुः समवसरणं तत्प्रदेशे तदामराः ॥३०॥ अशोकवृक्षस्तस्यान्तर्विचक्रे व्यन्तरामरैः । पन्नवैः पवनोद्धनैर्भव्यजन्तूनिवाइयन् ॥३१॥