________________
संस्कृत स्तोत्रादि संग्रह ३५६ गृहात्परिव्रज्य चरित्रलोल्या-, ___ मन्ये विसस्मार स शब्दविद्याम् ।।३।। म तत्र संज्ञाविधिना समानैः,
सहाऽपि सन्ध्यक्षरता विधित्सन् । ये नामिनस्तेषु गुणञ्च वृद्धि
मवाधपूर्व युगपच्चिकीर्षन् ॥ ४॥ धित्सन् हसत्वं न हि निःस्वरेषु,
तथान्त्ययोर्व रसयो विसर्गम् । नाम्नः शत त्र्युत्तरमन्त्रयुञ्जन् ,
विभक्तिभिस्तस्य च नाशमाशु ॥५॥ लिङ्गत्रयोच्छेदमपि प्रकुर्वन् ,
न युष्मदस्मत्स्वपरापरत्वं । अग्रोपसर्गा व्यय कारकं च,
स्त्रीप्रत्ययं तत्र मनागपीच्छन् ॥ ६ ॥ वर्णम्य लोपं न तथा विकारं,
न वर्णनाशं च वदन्निरुक्तं । कदापि नो विग्रहकारकेपु,
प्रकल्पयन्नेव विकल्पभावम् ॥ ७ ॥ वर्णा विशुद्धार्थविभक्तयो ये,
तेपा समास न समीहमानः । सुखाऽव्ययीभावपदं यत्र
लिासुः सदा तत्पुरुपप्रधानः ॥ ८॥