________________
३५८
धर्मवर्द्धन ग्रन्थावला जिनेश-चर्द्धमान वर्द्धमान शासनं वरं, नमामि मामकीनमानसाबुजन्मषट्पदम् ।।२४||
( कलशः ) इत्थं संवद्रोजष्टिनगभूसज्ञेच दीपालिका
घस्र गुम्फित एप सातभरदस्तीर्थड्राणा स्तवः । सद्विद्याविजयादिहर्पकमलाकल्याण शोभाभर, तन्याहो वहुधर्मवद्धनवता सन्मानसाना सदा ॥२॥ इति चतुर्विशतिजिनस्तवनं पृथकाव्यजातिमयम् ।
अथ व्याकरण सना शब्द रचनामयं
श्रीमहावीर जिलबृहत् स्तवनम् यस्तीर्थराजस्त्रिशलात्मजातः सिद्धार्थभूपो भुवि यस्य तातः, वितन्यते व्याकरणस्य शब्दस्तत्कीर्तिरेवात्र यथामुदब्दैः ॥१॥
यो लेख शालाऽध्ययनाय वीरो,
विनीयमानः प्रयतः पितृभ्याम् । इन्द्रण पृष्टं सममुत्ततार,
सर्वेस्ततः शाब्दिक एष उचे ॥२॥ ततः परं यः परिणीयपनी,
संसुज्य सर्वानपि कामभोगान् ।