________________
३४६
धर्मवर्द्धन ग्रन्थावली
भगवन्नामतोऽति (पि) भयं न भवतीत्याह
पूर्व त्वया सदुपकारपरेण तेजो
लेश्या हता जिन विधाय सुशीतलेश्याम् । अद्यापि युक्तमिदमीश तथा भयानि
त्वन्नामकीर्तनजलं शमयत्यशेषम् ॥३॥ भगवन्नामतः सर्पभयमपि विलीयत इत्याह
ऊर्ध्वस्य ते बिलमुखे वचनं निशम्य
यत्रण्डकौशिकफणी शमतामवाप। तन् साम्प्रतं तमपि नो स्पृशतीह नाग
स्त्वन्तामनागदमनी हृदि यस्य पुसः ॥३७॥ भगवविहारे ईतयो न भवन्तीत्याह
तुर्यारके विचरसिस्म हि यत्र देशे
तत्र त्वदागमत ईतिकुलं ननाश । अद्यापि तद्भयमहर्मणिधामरूपान्
त्वत्कीर्तनात् तम इवाशु भिदामुपैति ॥ ३८॥ भगवत्पादसेवाफलम्
निर्विग्रहाः सुगतयः शुभमानसाशाः
सच्छुक्लपक्षविभवाश्चरणेपु रक्ताः। रम्याणि मौक्तिकफलानि च साधुहंसा
स्त्वत्पादपङ्कजवनायिणो लभन्ते ।। ३६ ।।