SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ संस्कृत स्तोत्रादि संग्रह ३४७ - भगवद्वचनश्रद्धानात् कामितप्राप्तिर्भवतीत्याह संसारकाननपरिभ्रमणश्रमेण, क्लान्ताः कदापि दधते वचन कृत ते । ते नाम कामितपदे जिन देह भाज स्वासं विहाय भवतः स्मरणाद् ब्रजन्ति ।। ४०॥ भगवद् पं दृष्ट्वा सुरूपा अपि स्वरूपमदं मुञ्चन्तीत्याह सर्वेन्द्रियैः पटुतरं चतुरस्रशोभ त्वां सत्प्रशस्यमिह दृश्यतरं प्रदृश्य तेऽपि त्यजन्ति निजरूपमदं विभो । ये मा भवन्ति मकरध्वजतुल्यरूपाः ॥४१॥ निर्वन्धनं जिन ध्यायन्तो निर्वन्धना भवन्तीत्याह छित्वा दृढानि जिन | कर्मनिबन्धनानि सिद्धस्त्वमापिथ च सिद्धपद प्रसिद्धम् । एवं तवानुकरणं दधते तकेऽपि सद्यः स्वयं विगतबन्धभया भवन्ति ।। ४२ ।। • भगवत्स्तोत्राध्ययनान् सर्वोपद्रवनाशो भवतीत्याह न व्याधिराधिरतुलोऽपि न मारिरारं, नो विड्वरोऽ शुभतरो न दरो ज्वरोऽपि । व्यालोऽनलोऽपि न हि तस्य करोति कष्ट । यस्तावक स्तवमिमं मतिमानधीते ।। ४३ ।।
SR No.010705
Book TitleDharmvarddhan Granthavali
Original Sutra AuthorN/A
AuthorAgarchand Nahta
PublisherSadul Rajasthani Research Institute Bikaner
Publication Year1950
Total Pages478
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy