________________
५४
वीरस्तुतिः। - - त्वेन शरीरनामकर्मोदयजनितोपसंहारविस्ताराधीनत्वात् घटादिभाजनस्थप्रदीपवत् सदेहपरिमाणाः । “भोक्तारः” यद्यपि शुद्धद्रव्यार्थिकनयेन रागादिविकल्पोपाधिरहितखात्मोत्थसुखामृतभोक्तारस्तथाऽप्यशुद्धनयेन तथाविधसुखामृताभावाच्छुभाशुभकर्मजनितसुखदुःखभोक्तत्वाद्भोक्तारः । “संसारस्थाः" यद्यपि शुद्धनिश्चयनयेन निस्संसारनित्यानन्दैकखभावास्तथाप्यशुद्धनयेन द्रव्यक्षेत्रकालमावभवपञ्चप्रकारसंसारे तिष्ठन्तीति संसारस्थाः। "सिद्धा" व्यवहारेण स्वात्मोपलब्धिलक्षणसिद्धत्वप्रतिपक्षभूतकर्मोदयेन यद्यप्यसिद्धास्तथापि निश्चयनयेनानन्तज्ञानानन्तगुणखभावत्वात् सिद्धाः । त एवंगुणविशिष्टा जीवाः । "विस्रसोर्द्धगतिकाः।" यद्यपि व्यवहारेण चतुर्गतिजनककर्मोदयवशेनोोधस्तिर्यग्गतिखभावास्तथापि निश्चयेन केवलज्ञानाद्यनन्तगुणावाप्तिलक्षणमोक्षगमनकाले विलसा खभावेनोर्द्धगतिकाश्चेति । अत्र शुद्धाशुद्धनयद्वयविभागेन नयार्था अप्युक्ताः । आगमार्थः पुनः "अस्त्यात्माऽनादिबद्धः” इत्यादिप्रसिद्ध एव शुद्धनयाश्रितं जीवखरूपमुपादेयं शेषं च हेयम् । एवंविधा नीवास्त्रस्यन्त्युद्वेगं भयं प्राप्नुवन्ति यद्वा चरन्ति चेतस्ततो गच्छन्तीति त्रसाः। "चरिष्णु जंगमचरं त्रसमिंगं चराचरमित्यमरः ।" ते त्रसास्तु द्वित्रिचतुःपञ्चेन्द्रियः मेदाच्चतुर्धा । तथा ये च स्थावराः पृथिव्यम्वुतेजोवायुवनस्पतिभेदात्पंचधा । तिष्ठन्तीति स्थावरा भूताः सत्वाश्चापि, यथा च
"प्राणा द्वित्रिचतुःप्रोक्ता भूतास्तु तरवः स्मृताः ।
जीवाः पंचेंन्द्रियाः प्रोक्ताः शेषाः सत्वा उदीरिताः ॥" "स्थावरो जंगमेतर इत्यमरः ।” एते प्राणानां धारकत्वात्प्राणिनो भवन्ति । प्राणास्तु दशधा यथा-"पंचेन्द्रियाणि त्रिविधं वलं