________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता
उहुं अहेयं तिरियं दिसासु, तसा य जे थावर जेय पाणा।। से णिचणिचेहि समिक्ख पन्ने, दीवेव धम्मं समियं उदाहु ॥४॥
संस्कृतच्छाया ऊर्ध्वमधस्तिर्यक्षु दिक्षु, त्रसाश्च ये स्थावरा ये च प्राणिनः । स नित्यानित्याभ्यां समीक्ष्य प्राज्ञः
दीप [द्वीप] इव धर्म समितमुदाह ॥४॥ सं० टीका-अधुना सुधर्माचार्यस्तद्गुणान् ' स्फुटं प्रकटनचिकीर्पराह-ऊर्ध्वमस्तिर्यक्षु दिक्ष्वथवा चतुर्दशरज्ज्वात्मके लोके ये जीवाः "शुद्धनिश्चयनयेनादिमध्यावसानवर्जितवपरप्रकाशकाविनश्वरनिरुपाधिशुद्धचैतन्यलक्षणनिश्चयप्राणेन यद्यपि जीवन्ति, तथाप्यशुद्धनिश्चयनयेनानादिकर्मवन्धवशादशुद्धद्रव्यभावप्राणैर्जीवन्तीति जीवाः । 'उपयोगमयाः' शुद्धद्रव्यार्थिकनयेन यद्यपि सकलविमलकेवलज्ञानदर्शनोपयोगमयास्तथाप्यशुद्धनयेन क्षायोपशमिकज्ञानदर्शननिवृत्तत्वाज्ज्ञानदर्शनोपयोगमया भवंति । “अमूर्तयः” यद्यपि व्यवहारेण मूर्तकाधीनत्वेन स्पर्शरसगन्धवर्णवत्या मूर्त्या सहितत्वान्मूर्तास्तथापि परमार्थेनामूर्तातीन्द्रियशुद्धवुद्धैकखभावत्वादमूर्ताः । “कर्तारः” यद्यपि भूतार्थनयेन निष्क्रियटकोत्कीर्णज्ञायकैकखभावोऽयं तथाऽप्यभूतार्थनयेन मनोवचनकायव्यापारोत्पादककर्मबीजसहितत्वेन शुभाशुभकर्मकर्तृत्वात् कर्तारः । “सदेहपरिमाणा” यद्यपि निश्चयनयेन सहजशुद्धलोकाकाशप्रमितासंख्येयप्रदेशास्तथापि व्यवहारेणानादिकर्मवन्धाधीन