________________
४४
वीरंस्तुतिः।
इति पाठान्तरं तस्याऽयमर्थः । आसुपन्ने आशु शीघ्रं प्रज्ञा यस्यासावाशुप्रज्ञः, सर्वत्र सदोपयोगत्वात् [न तु छद्मस्थः शाट्योऽल्पज्ञ इव विचिन्त्य जानातीति भावः । छमनि शाठ्चेऽल्पज्ञत्वे तिष्ठतीति छद्मस्थः । "कपटोऽस्त्रीव्याजदम्भोपधयश्छद्मकैतवे, कुमृतिनिकृतिः शाट्यमित्यमरः ।” छाद्यते खरूपमनेनेति छद्म, कपटे, छले, व्याजे, अपदेशे, स्वरूपाच्छादने, रजते, नवनीते, शुद्धे, ऽक्षिरोगमेदे च,] महर्षिः महॉश्चासावृपिश्चेति महर्षिरित्यत्यन्तोग्रतपश्चरणानुष्ठायित्वादनुकूलप्रतिकूलपरिषहोपसर्गादिमहातितिक्षासहनाचेति वा, याथातथ्येन तत्वानां प्रकाशकत्वात्सत्यवाक्त्वान्महर्षिः । "ऋषयः सत्यवचस इत्यमरः" । अनन्तज्ञानी-अनन्तमवसानरहितमविनाश्यनन्तपदार्थपरिच्छेदकं वा विशेषार्थग्राहकं ज्ञानमस्यास्तीति अनन्तज्ञानी । एवं सामान्यार्थपरिच्छेदकत्वादनन्तदीत्यथवा विशेपार्थज्ञानमनन्तमनवधिकमपरिच्छिन्नमित्यर्थः सर्वज्ञतेति भावः । सामान्यार्थग्राहकदर्शनं ते द्वे अपि यस्यानन्ते । “अनन्तोऽनवधावित्यमरः" तदेवं भूतस्य युक्तस्य, अनन्तगुणसहितस्य भगवतो यशःसुरासुरनरातिशाय्यतुलं प्रमाणरहितं चास्ति यस्य स यशस्वी-तस्य यशखिनो, लोकस्य जगतश्चक्षुःपथे-नयनमार्गे भवनस्य केवलावस्थायां विद्यमानस्य लोकाः सूक्ष्मव्यवहितपदार्थाविर्भबनेन च दृग्भूतस्य स्थितस्य जानीरावगच्छ । धर्म ससारोद्धरणखभावत्वावच्छिन्नं श्रुतचारित्ररूपं । समतातपस्तुष्टियमार्जवोत्तमक्षमादिविहितात्मपुरुषार्थ वा । 'धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः । धीविद्या सत्यमक्रोधं दशकं धर्मलक्षणमिति" स्मृतिः । तथा च
धारणाद्धर्ममित्याह, धर्मो धारयते प्रजाः, धर्म एव हतो हन्ति, धर्मो रक्षति रक्षितः ।।