________________
संस्कृतटीका-हिन्दी-गुर्जरभापान्तरसहिता
४३
संस्कृतच्छाया खेदज्ञः [क्षेत्रज्ञः] स कुशलो महर्पिः, अनन्तज्ञानी च अनन्तदर्शी । यशखिनः चक्षुःपथे स्थितस्य,
जानीहि धर्म च धृतिं च प्रेक्षस्व ॥ ३॥ सं०टीका-स ज्ञातनन्दन-महावीरो भगवान् चतुर्विंशदतिशयसमेतः, पंचत्रिंशद्वाणीगुणोपपेतः "उप अप इतः 'शकन्ध्वादिषु पररूपं वाच्यमिति वार्तिकेन' पररूपत्वे उपपेत इति" । खेदं संसारान्तवर्तिजीवानां कृतकर्मविपाकजं शारीरिक मानसिकं च दुःखं क्लेशं, आत्मीयज्ञानेन जानातीति खेदज्ञः-सदयः । "खेदज्ञः सदयो वीर इति कोषः" । तं परकीयात्मदुःखं विज्ञाय समस्तप्राण-भूत-जीवसत्वानां दु.खापनोदनसमर्थोपदेशदानादियुक्त इति । अथवा 'खेयन्नए' इत्यस्य 'क्षेत्रज्ञ' इतिच्छाया तत्रायमर्थः क्षेत्रमाकाशं तल्लक्षणया तन्मध्यवर्ती धर्माधर्मात्मकालपुद्गलसमूहस्तज्जनातीति क्षेत्रज्ञः । लोकालोकखरूपपरिज्ञातृत्वादिति। पुनश्च वा यथाऽवस्थितात्मखरूपपरिज्ञानादनुभवनादात्मज्ञ इत्यपि साधुरेव । अथवा क्षेत्रं शरीरं तदसारतया जानातीति (दर्शयतीति) वा, क्षेत्रं स्त्रीविषयदोषं तद्रमणानुरक्तजं तज्जानातीति क्षेत्रज्ञः । "क्षेत्र नारीशरीरयो" रित्यमरः । कुशलो-निपुणः, सदसज्ज्ञानप्ररूपकत्वात् । “प्रवीणे निपुणाभिज्ञविज्ञनिष्णातशिक्षित । वैज्ञानिक कृतमुख. कृती कुशल" इत्यमरः । अथवा तानष्टकर्मकुशान् लुनातीति कुशलः। प्राणिनां कर्मोच्छित्तये निर्जरार्थाय निपुणः समर्थः । "पर्याप्तिक्षेमपुण्येषु कुशलं शिक्षिते त्रिष्वित्यमरः" । अथवा प्राणिनां भावुको भद्रकारको मङ्गलप्रदः । "श्वः श्रेयस शिवं भद्रं कल्याणं मंगलं शुभम् । भावुक भविकं भव्यं कुशलं" इत्यमरः । 'आसुपन्ने'