________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता
· क्रोध धुनीते, विदधाति शान्ति, तनोति मैत्री, विहिनस्ति मोहम् ।
पुनाति चित्त, मदनं लुनीते, येनेह बोधं तमुशन्ति सन्तः ॥" तथाच
"आत्मानमात्मसंभूतं, रागादिमलवर्जितम् ।
यो जानाति भवेत्स्य, ज्ञानं निश्चयहेतुजम् ॥" • अथवा ज्ञायते सदसदनेनेति ज्ञानम् । “मोक्षे धीनिमित्यमरः" । अवाप्तवान् , किंभूत भगवतो ज्ञानम् । विशेषाववोधकम् , लोकालोकावबोधक-सर्वभावग्राहकं लोकालोकविषयं, नातः परं ज्ञानमस्ति । न च केवलज्ञानविषयात्परं किंचिदन्यज्ज्ञेयमस्ति । तत्केवलज्ञानं, केवलं परिपूर्ण समग्रमसाधारणं निरपेक्षं विशुद्धं सर्वभावज्ञापकं लोकालोकविषयमनन्तपर्यायमित्यर्थः । शुद्धात्मोत्थसहजपरमानन्दरूपमतीन्द्रियसुख च केवलज्ञानादेवावामोति । अनेन केवलज्ञानचेतनामयत्वेन केवल ज्ञातृत्वादन्येषा कर्मवन्धं वाथवा कर्मफलं च शुभाशुभं केवलज्ञानेनैव ज्ञायते, सूक्ष्मवादरं चराचरं वा पूर्णसर्वज्ञत्वमिति भावः । किमूतं तस्य दर्शनं, सामान्यार्थपरिच्छेदकं दर्शनावरणरहितं चेति । "निर्वर्णनं तु निर्ध्यान, दर्शनालोकनेक्षणमित्यमरः ।" अथवा दृशेरव्यभिचारिणी सर्वेन्द्रियानिन्द्रियार्थप्राप्तिस्तत्सम्यग्दर्शनमिति । प्रशस्त दर्शनं सम्यग्दर्शनम् । सगतं वा दर्शनं सम्यग्दर्शनम् । वाथवा जीवादीनि तत्वानि त एवार्थास्तेषां श्रद्धान तेषु प्रत्यवधारणं, तदेवं प्रशमसंवेदनिर्वेदानुकम्पास्तिक्याभिव्यक्तिलक्षणं सम्यग्दर्शनम् । यस्य मोहनीयसप्तकक्षयेन दर्शनं विशुद्धं तदेव सावरणं केवलं दर्शनं भवसम्भूतक्लेशप्राग्भारभेषजमनेन चरणज्ञानयोजिं महाव्रतविशुद्धभावजीवितं भवति । एतत्सद्दर्शनरत्नं मुक्तिदं विश्वलोकैकभूषामणिसदृशं । एवमेव