________________
वीरस्तुतिः ।
संस्कृतच्छाया
कथञ्च ज्ञानं कथं दर्शनं तस्य, शीलं कथं ज्ञातसुतस्याऽऽसीत् ? जानीषे भिक्षो ! याथातथ्येन, यथाश्रुतं ब्रूहि यथानिशान्तम् ॥२॥
३४
सं० टीका - तथैव तस्य भगवतो ज्ञातृसुतस्य महावीरस्यान्तिमतीर्थकृतः सम्यग्ज्ञानादिगुणावाप्तये प्रश्नयन्नाह —— कथं केन प्रकारेण स वीरो "वि= विशिष्टां, ई = लक्ष्मीं, राति ददातीति सः । अथवा विशेषेण ईर्ते - सकलान् पदार्थान् जानातीति वीरः, यद्वा वि= विशिष्टा इरा = वाग्दिव्यध्वनिरूपा, इरा = पृथ्वी - ईषत्प्राग्भारा स्वरूपाऽस्ति यस्यासौ वीरः, अथवा वीरयति, वीर इवाचरतीति वा वीरः । वीररसपूर्णतामासाद्य कामराज - यमराज - मोहराजान् निराकरोतीति वीरः । यद्वा वि= विशिष्टा इरा गगनगमनं अपुनरावृत्तिरूपं यस्यासौ वीरः । " तस्य भगवतो, ज्ञानं “हिताहितप्राप्तिपरिहारसमर्थं हि प्रमाण तो ज्ञानमेव तत्" " तन्निश्चयात्मकं समारोपविरुद्धत्वादनुमानवत्"
अथवा
“त्रिकालगोचरानन्त-गुणपर्य्यायसंयुताः,
यत्र भावाः स्फुरन्त्युच्चैस्तज्ज्ञानं ज्ञानिनां मतम् । ध्रौव्यादिकलितैर्भावैनिर्भरं कलितं जगत्, चिन्तितं युगपद्यत्र, तज्ज्ञानं योगिलोचनम् ॥” पुनश्च--- "अनेकपर्य्यायगुणैरुपेतं, विलोक्यते येन समस्ततत्वम् । तदिन्द्रियानिन्द्रियभेदभिन्नं, ज्ञानं जिनेन्द्रैर्गदितं हिताय ॥ रत्नत्रयीं रक्षति येन जीवो, विरज्यतेऽत्यन्तशरीरसौख्यात्, रुद्धि पापं कुरुते विशुद्धि, ज्ञानं तदिष्टं सकलार्थवद्भिः ॥