________________
४०८ ... वीरस्तुतिः। ..... : पुत्रो ह्यनेनैव शुद्धो, मुदा कारितः साधुसेवाप्रचारः ॥ ११२ः॥ इदं नावरुद्धं भवत्तो विचार्यो, यदा तस्य सत्यस्य नाम्नो मुनीशाः । गृहीतार एवं कदा ग्राहकत्वानिवृत्ता भवेयुश्च पंकेन तुल्यात् ॥ ११३ ॥ पुनः साधुसेवा सुकायेन कार्या, श्रुतेनाथ चित्तेन वाचा विमृश्य.! खकीयं परं चेति मेदं विहाय, ह्ययं रागद्वेषान्विते मेंदवादः ॥ (न वाऽ न्यत्र मेदोऽयमेवं विभाव्य, करोत्वञ्जसा साधुसेवा मतस्थः) ॥११॥ वसुधैव कुटुम्बकमित्युक्तिश्चरितार्थता । कर्तव्याखिलभावेन, भवद्भिर्धर्मसिन्धुभिः ॥ ११५ ॥ यद्रम्यं श्रवसो मिताक्षरयुतं पीयूषकल्पं वचः, श्रोतृणां हृदयान्धकारहरणं व्याख्यानमेतज्जगुः । व्याख्याता उभयागमादिजनितज्ञानेन्दुना भूषितो, ये शृण्वन्त्युपदेशमेकमनसा, श्रोतृन् विदुस्तान् नरान् ॥ ११६ ॥ व्याख्यानस्य सुगन्धमस्ति शिरसि मद्धिक्षुकाणां मुहुर्यावद्भुद्धिबलोदयं मुनिगणास्तावच्च व्याख्यानकम् । श्राद्धेभ्यश्च सुश्रावयन्ति मनसा महता प्रयत्नेन च । श्रोतारंपरिकथ्यतेऽनुदिवसं मेऽद्योपदेशं शृणु !: ।। ११७॥ . यः कश्चित्परदेशगोऽस्त्रि चतुरो विद्वान् समायां महान्, व्याख्यानं च कथा तदीयमुखता श्रीव्या कदाचिन्न हि.। श्रोतव्या व सदैव मेऽत्र मुखतः सन्धार्यतां प्रेमत, एवं ते कथयन्ति साधुनिपुणा ये दास्यभावं गताः ॥११८ ॥ देशान्तरागतः साधुः, सम्प्रदायेतरः पुनः । समाचारी प्रभिन्ना वा, मद्देशे च, समागतः ॥ ११९ ॥ मदने नो कथा। ऋतु, समर्थो न च भूयवाम् विना मदाज्ञया किंचिन्नोश्रावयितुमीश्वरः ।। १२० ॥ लघुत्वस्य विचारोऽयं, प्रदेशान्तरगो भवेत् । तदर्थं न हि स्यादेवं, प्रतिष्ठा नैव चाश्रयः ।। १२१ ॥ श्रावकाणां च सौभाग्य, यद्यागन्तुकसाधवः । प्रवासिनः समायांन्ति, तेषां व्याख्यानमुत्तमम् ॥१२२ ।। श्रोतव्यमध