________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता
-
मङ्गलाचरणम् ।
सर्व एव हि जैनानां, प्रमाणं लौकिको विधिः। यत्र सम्यक्त्वहानिर्न, यत्र न व्रतदूषणम् ॥ १॥ रत्नत्रयपुरस्काराः, पश्चापि परमेष्ठिनः।
भव्यरत्नाकरानन्दं, कुर्वन्तु भुवनेन्दवः॥२॥ [अर्हन् परमेष्ठी] ॐ निखिलमुवनपतिविहितनिरतिशयसपOपरम्परस्य, परानपेक्ष्यापर्य्यायप्रवृत्तसमस्तार्थावलोकलोचनकेवलज्ञानसाम्राज्यलाञ्छनपञ्चमहाकल्याणाष्टकमहाप्रातिहार्यचतुस्त्रिंशदतिशयविराजितस्य, पोडशार्धलक्षणसहस्रांकितदिव्यदेहमाहात्म्यस्य, द्वादशगुणप्रमुखमहामुनिमनःप्रणिधानसंनिधीयमानपरमेश्वरपरमसर्वज्ञादिनामसहस्रस्य, विरहितारिरजोरहःकुहकमावस्य, समवसरणसरोऽवतीर्णजगजयपुण्डरीकखण्डमार्तण्डमण्डलस्य, दुष्पाराजवंजवीभावजलनिमज्जजन्तुजातहस्तावलम्बपरमागमस्य, भक्तिभरविनतविष्टपत्रयीपालमौलिमणिप्रमामोगनभोविजृम्भमाणचरणनक्षत्रनिकुरुम्बस्य, सरखतीवरप्रसादचिन्तामणेर्लक्ष्मीलतानिकेतकल्पानोकहस्य, कीर्तिपोतिकाप्रवर्धनिकामध्ये नीरवीचिपरिचयखलीकारकारणामिधानपानमन्त्रप्रभावस्य, सौभाग्यसौरभसंपादनपारिजातप्रसवस्तबकस्य, सौरूप्योत्पत्तिमणिकरिकाघटनविकटाकारस्य, रलत्रयपुरःसरस्य, भगवतोऽहत्परमेष्ठिनो भूयो भूयः स्मृतिं करोमीति स्वाहा । अपि च
नरोरगसुराम्भोजविरोचनरुचिश्रियम् । आरोग्याय जिनाधीशं, करोम्यर्चनगोचरम् ॥१॥