________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता ३ कृतम् । परं तद्भावपूर्वकं हि सफलतामेति । दानादिरूपं हि धर्मरलं प्राप्य सुकुलोत्पत्तिसमस्तेन्द्रियसामग्र्याद्युपेतेनाऽनेकान्तवादरूपमाईतदर्शनपरिज्ञाय चाशेषकर्मोच्छित्तयेऽवश्यं प्रयतितव्यं भव्येनेति । परन्तु कर्मोच्छेदश्चापि सम्यग्विवेकसव्यपेक्षोऽसावपि ह्याप्तोपदेशमन्तरेण न सुलभः, आप्तश्चात्यन्तिकाद्दोषक्षयात् , स चाहन्नेव, स हि श्रीज्ञातपुत्रमहावीरचरमतीर्थकरस्तस्य स्तुतौ कृतयनोऽसीति, कोविदमुख्यैरिह जंगति तस्य गुणवर्णनं बहुधा कृतं परन्त्वहमपि तद्गुणवर्णनोत्कटेच्छया तरलीकृतः सम्यग्दर्शनबलेन क्षयोपशमबलेन च किञ्चिद्विवरीतुं यतिष्ये । किमनन्तमाकाशे पक्षिराजगतं सम्यगवगम्य तेनैव पथा शलमो गन्तुं न वाञ्छति ? वाञ्छत्येवैवमनया रीत्याऽहमप्यल्पज्ञप्रायः परं किञ्चिद्धि श्रीसूत्रकृतागसूत्रे यज्ज्ञातपुत्रमहावीरस्तुतिनामाध्यायस्य व्याख्या वितनोमि, तद्वीरकृपयैव, न ममाल्पज्ञस्य माहात्म्येनेति । अथ श्रीमन्महावीरस्य प्रभोर्गुणा निगद्यन्तेऽतोऽत्र जम्बूनामधेयोऽन्तेवासी सुध
र्माणं धर्माचार्य आ मर्यादया तद्विषयविनयरूपया चय॑ते सेन्यन्ते जिनशासनोन्नत्यर्थोपदेशकतया तदाकाक्षिभिरित्याचार्यास्तमाचार्यम् ; उतंचसुत्तत्थविऊ लक्खणजुत्तो, गच्छस्स मेदिभूओ य, . गणतत्तिविप्पमुक्को अत्थं वाएइ आयरिया ॥१॥
। संस्कृतच्छाया- - सूत्रार्थविल्लक्षणयुक्तो, गच्छस्यालम्बनभूतश्च । ।
गणतप्तिविप्रमुक्तः सन्नर्थ वाचयंत्याचार्या इति । । । ' अथवा आचारो ज्ञानाचारादिः पंचधा, आ मर्यादया वा चारों विहारं आचारस्तत्र साधवः खयं करणाप्रभाषणात्प्रदर्शनाचेत्याचार्याः । आह.. च-, . . . . . . . . . -