________________
१८४ : .. वीरस्तुतिः। . सदुपदेशदानाद्वा महावीरः सत्त्वाधार इति, अथवा पृथ्वी सर्वसहा, एवं भगवानपि परिषहोपसर्गान सम्यक सहते. कर्मरजांसि धनोति दरीकरोतीति भावः, अष्टविधं कमापनयति वेति शेषः । तथा विगता प्रणष्टा सबाह्याभ्यन्तरेषु वस्तुषु गृद्धिर्लिप्सा वा गाय, तृष्णा भरमभिलाषो यस्य स विगतगृद्धिः । तथा सन्निधानं सन्निधिः स च द्रव्यसन्निधिः सचयः । धनधान्यद्विपदचतुष्पदरूपो द्रव्यसन्निधिः, भावसन्निधिस्तु कपायविपयादयो वा, सामान्येन कषायास्तमुभयरूपमपि सन्निधिमथवेन्द्रियजन्य विषयं तन्न करोतीति भावः । “संनिधाने, अन्तिके, इन्द्रियगोचरे, सन्निधिरिति शब्दार्थचिन्तामणिः"। "सन्निधिः संनिधानेऽपि पुमानिन्द्रियगोचर इति मेदिनी"। "पञ्चक्खे सन्निधाने च, सन्निधि परिकित्तितो, इत्यभिधानप्पदीपिका" । भगवान्न करोतीन्द्रियगोचरं विषयं प्रगटं प्रत्युत नाशयतीति भावः । वीरस्तथैवाशुप्रज्ञः सर्वत्र सदोपयोगान छद्मस्थवन्मनसा प-लोच्य पदार्थपरिच्छित्तिं विधत्ते करोति । छाद्यते खात्मरूपमनेनेति छद्म, तन्मध्ये तिष्ठतीति छद्मस्थो हि स केवलज्ञानरहितो भवति । परन्तु भगवान् सर्वज्ञः । स एवंभूतः समुद्रपारमिव महाभवौघं संसारसमुद्रं समुत्तीर्य तीर्ला, बहुदुःखाकुलं चातुरगतिकं संसारसागरं तीर्णः सर्वोत्तमं निर्वाणमासादितवान् । अभयं प्राणिनां प्राणरक्षानुकूलं व्यापारं खतः परतश्च सदुपदेशदानात्करोतीत्यभयंकरश्च, भयोपपदात्करोतेः 'मेघर्तिभयेषु कृत्र' इति 'ख' प्रत्यये रिवत्वात् 'अरुर्द्विषदजन्तस्य चेति मुमागमः।' तथाऽष्टविधकर्मविशेषेणेरयति, प्रेरयति, कम्पयति, दूरीकरोतीति वीरः । तथा अनन्तमपर्यवसान-नित्यं ध्रुवं ज्ञेयानन्तत्वात् वाऽनन्तं चक्षुरिव चक्षुः केवलज्ञानं यस्य स तथेति ॥ २५॥