________________
संस्कृतटीका-हिन्दी-गुर्जरभाषान्तरसहिता १२९ ॥ स्त्रियाऽपि परपुरुषो भुजग इव त्याज्यः॥
"ऐश्वर्ये राजराजोऽपि रूपे मीनध्वजोऽपि यः। . सीतया रावण इव, त्याज्यो ना- नरः परः ॥" पुनश्च-"प्राणभूतं चरित्रस्य, परब्रह्मैककारणम् ।
समाचरन् ब्रह्मचर्य, पूजितैरपि पूज्यते ॥" यतः-"चिरायुषः सुसंस्थाना, दृढसंहनना नराः।
तेजखिनो महावीर्य्या, भवेयुर्ब्रह्मचर्य्यतः ॥" एतैर्ज्ञायते ब्रह्मचर्यमाहात्म्यम् ॥ तथैव सर्वलोकोत्तमरूपसम्पदा सर्वातिशायिन्या क्षायकज्ञानदर्शनशीलातपुत्रो ज्ञातनन्दनोऽन्तिमजिनः श्रमणः प्रधानः॥ यतो भगवतो महावीरस्य बहूनि नामानि सन्ति । यथा___“समणे भगवं महावीरे नाते, नातपुत्ते, नातकुलनिवत्ते, विदेहदिन्ने, विदेहजच्चे, समणे भगवं महावीरे, कासवगोत्ते, अम्मा. पियुसतिए वड्डमाणे, सह सम्मुदिए समणे, भीमभयमेरवं ओरालं अचेलयं परिसहं सहइत्तिक? देवेहिं से नाम कयं समणे भगवं महावीरे ॥ श्रीआचारागसूत्रम्-११, १५, १६-१७ "एवं से उदाहु अणुत्तरनाणी, अणुत्तरदंसी अणुत्वरणाणदेसणधरे अरहा णायपुत्ते भगवं, वेसालिए वियाहिए"।
(श्री सूयगडांगसूत्रम् १-२)..' , भगवतो महावीरस्य ज्ञातवंशो यथाऽऽह सिद्धान्ते । -- "छबिहा कुलारिया मणुस्सा प० तं० उग्गा, मोगा, राइण्णा,
इक्खागा, णाता, कोरबा" || , - (श्री. ठाणांग सूत्रम् ४९७)
वीर. ९