________________
॥अभिप्रायाः॥ ज्ञातृपुत्रमहावीरः, सर्वज्ञस्तु जगद्गुरुः । तस्य स्तुतेर्मनोरम्या, सा टीका कस्य न प्रिया ।। निखिलागमविज्ञेन, सिन्धबङ्गविहारिणा। निर्मिता पुष्पचन्द्रेण, सा टीका कस्य न प्रिया ।। गीर्वाणी हैन्दवीभाषा, गुर्जरीया तथैव च । त्रिभाषासङ्गमो यत्र, सा टीका कस्य न प्रिया ।। भववन्धापही च, सूत्रबोधस्य दीपिका । शरण्या सर्वजीवानां, सा टीका कस्य न प्रिया ।। वाच्यवाचकभावस्तु, स्फुटो यत्र विधीयते । लालित्यादिगुणैराट्या, सा टीका कस्य न प्रिया ।। विवुधेन्द्रमुनीन्द्राणां, चरतां शास्त्रवर्मसु । कठाभूषणक भाति, सा टीका कस्य न प्रिया ।। विद्यापीठे तु संस्थाप्य, टीकां पाठ्यविधायकाः । धर्मोन्नतिश्च कर्तव्या, हि पुष्करमुनेर्मतम् ।।
व्याकरण-काव्य-न्यायतीर्थः
पुष्करो मुनि:संसारार्णवसेतुतामुपगता सिद्धान्तचिन्तापरा, कल्याणायनदर्शिकाऽस्त्यविरतं सत्पाणिनां सर्वतः । हिन्दी-संस्कृत-गुर्जरी प्रभृतिभिर्भाषामिराभूषिता, श्रीपुष्पेन्दुमुनीरिता विजयते वीरस्तुतेर्विवृतिः ॥ १ ॥
-
ता० १-९-३९ । विद्यामन्दिर कानपुर.
पाण्डेय देवेन्द्रनाथ शास्त्री