________________
द्वितीयविशिका
९३
इत्याद्याप्तोक्तेश्च, पर यदि कदापि ज्ञानावरणीयदृढबन्धनबद्धाना मापतुषादीनामिव न स्याज्ज्ञान, तदापि न योग्यमाचरण प्रत्याख्यानविधानं वा हेयमित्येतावन्मात्रज्ञापनायैतत् । ननु तहि ज्ञान्यज्ञानिनो क प्रतिविगेप? इति चेत्, नैव किञ्चित्पूर्वोक्तविधिविशिष्टता चेदन्तर, यच्चान्यत् तन्न विवक्ष्यतेऽप्रकृतत्वादन्यथा गुर्वनुवृत्तिपरायणानामपि न तरणीवत्स्वपरतारकता, सा तु ज्ञानिन एवेति । यदि चोच्येत-सपूर्ण न जायते ज्ञान यावन्न तावत्तत्क्रियेति चेत्, न तदा अक्केिवलात्कार्य किञ्चित्, न च भवति तदकस्मात्तत्पर्यटन- समाचरणीय भवाटव्यामप्रतिहततया । न च भवदुदितेषु सिद्धसिद्धान्तसिद्धान्तपाठेषु दरीदृश्यते ह्येतत्-"पढम नाण तओ दया" इत्यत्र दयोपयोगिन एव ज्ञानस्योल्लेखात् । अत एवोपसहृत"इच्य छजीवणिय सम्मद्दिट्ठी सया जए" इति "अन्नाणी कि काही" इत्यत्रापि । “किं वा नाहीइ छेय पावर्ग" इति वचनाच्छय पापकयोञ्जनमेव सवराश्रवरूपयोराख्यातम् । न च तच्छब्दज्ञानाभावेऽपि भावार्थबोधमन्तरेण विधीयेत केन किमपि । श्रीद्वितीयेऽङ्गेऽप्येतदेवाधिकृत वेदितव्यम् । अत आह"पुरतो वंधण परिजाणिया । किमाह बघण वीरो किं वा जाण तिउट्टइ" इत्यादिना आरम्भपरिग्रहयोरेव वन्धनताप्रतिपादनादिनाऽऽश्रवाभिधानात् । श्रीमद्धर्मदासगणिप्रवरैर्यत्प्रोक्त तत्साधूनाश्रित्यैव, न तु गृहस्थान् । तदपि न गीतार्थाश्रितान् विरतानगीतार्थानाश्रित्य, किन्तु ज्ञानलवदुर्विदग्धस्वच्छन्दचारिगीतार्थाभासान विनिश्चितश्रुतरहस्यानाश्रित्येव । भवति च तथाविधाना तथात्व, परं न तत्प्रत्याख्यानोपयोगि, गच्छप्रतिपालनाधिकारप्रतिवद्ध हि तदिति विदाइकुर्वन्तु विद्वासस्तदभिप्राय तत सम्यक् । यच्च 'सा ज्ञानिन' इत्यादि। तदपि