________________
द्वितीयविशिका
९२ ।
विधस्य विशिष्टता चेगी। यदुदीरिता पूज्य -"यो निरनुवन्धदोषाच्छाद्धोऽनाभोगवान् वृजिनभीरु । गुरुभक्तो ग्रहरहित सोऽपि ज्ञान्यव तत्फलत ॥१॥" [पोडगके] इत्यादि । अत एव च मापतुपादीना तथाविधज्ञानाभावेऽपि श्रामण्य अष्टप्रवचनमातृमात्रवेदनामपि च श्रामण्यं व्याख्याप्रज्ञप्त्युक्त सङ्गच्छते। दत्ता च श्रीमद्भिश्चरमतीर्थकरपादस्त्रसादिनानविकलायाप्यतिमुक्ताय प्रव्रज्या, येन प्रावृट्पय पूरपानीयभृतां विधाय पालिका वाहित प्रतिग्रहस्तरीवुद्वया । न चैतदयुक्तं, तथात्वे केवल्यागातनातज्जन्यानन्तससारसंसरणप्रसक्ते.। उक्त चात एव भगवद्धि स्थविराणामनिन्द्यतया, विशेषश्चायमेव तंत्र, यदुत-वृजिनभीरुता कल्पनागोचरातीता, ययाऽवीप्त निखिलाविभासि केवल, तनैकान्तेनाऽऽग्रह कार्य । अत एव साधूनाश्रित्य विहृत्यधिकारे व्याहियते व्याहर्तृभिः यत्-"गोयत्यो य विहारो वीओ गीयत्यनिस्सिओ भणिओ'' इत्यादि। तेपा ज्ञानेनैव तदनुसारिभि कार्याणा विधानान्न काप्यनास्था । न च कीदृशी ज्ञानविकलानामन्धानामिव कार्यसिद्धिः? । यतों दशितैव पूर्वकॉरिकाया 'यो निरनुवन्धे'त्येतस्या सिद्धिकारणीभूता विशिष्टता, ययेष्टसिद्धिर्जाता जायते भविष्यति च अंन्धानामपि, भवतामिव स्वतन्त्राणामेव प्रत्यूहप्रचयपूरितत्व, न तु ज्ञान्यनुसरणनिष्णाताना, तेषा तु ज्ञानिभिः सहैव स्वकार्यसिद्धि , अंत उच्यते--"चक्षुष्मानेक स्यादन्धोऽन्यस्तन्मतानुवृत्तिपर । गन्तारौ गन्तव्य प्राप्नुत एतौ युगपदेव ॥१॥"[षो०] इति । तन्न केवला ज्ञानशून्यतापि प्रतिवन्धिका विरतेः, यदि स्यात्पूर्वोक्ता विशिष्टता। यद्यपि श्रुत्वा सम्पद्यत एव ज्ञान-"सुच्चा जाणइ कल्लाण सुच्ची जाणड पावग। उभय पि जाणइ सुच्चा" इति पारमर्पप्रतिपादनात्, "विनयफल शुश्रूपा गुरुशुश्रूषाफल श्रुतज्ञान" ...