________________
द्वितीयविशिका
-
~
wwwwwwwwwwwwwwwwwwwwwwwwwwwww
चरमः । एतौ द्वौ शुद्धतयाख्यायेते । यदि परं प्रत्याख्याता न ज्ञाता प्रत्याख्यापयिता च यदि ज्ञाता, तहि विभापा। कोर्थ ? यदि प्रज्ञाप्य प्रत्याख्येय प्रत्यायापयति प्रत्याख्ख्यापयिता, शुद्धस्तहि प्रत्याख्यानविधि. पूर्वोक्तविकल्पद्वयवत्, यदि चाप्रज्ञाप्यैव प्रत्याख्येय कारयति करोति वा प्रत्याख्यान, न तहि शुद्ध इति युक्तव विभाषा। नन्वस्त्वेतस्मिन् विभाषा भङ्गके, पर यदि द्वावप्यज्ञौ प्रत्याख्येयवस्तुस्वरूपस्य तदितरस्यापि विधानस्य, · तर्हि कथ स्याद्विभाषा ? यत उच्यते तत्रापि विभाषा, न हि तत्र शुद्धयशुद्धिविकल्प ‘सम्भवति, येनोच्यते विभाषा, केवलाया अशुद्धेरेव. तत्र भावादिति चेत्, सत्य, यस्य प्रत्याख्यातुर्ज्ञान न प्रत्याख्येयादे पर तत्पितृभ्रात्रादीनां तदस्ति, ते च यथायोगमनुशीलन कारयि_ष्यत्यस्य, ते च दद्युरनुमति तदा तत्रापि शुद्धिसम्भवापेक्षया स्यादेव विभाषेति । दृश्यते च शिशूनामेकाशनोपवासादि पित्रादिभिरज्ञातमपि तैस्तेषामनुवृत्त्यादि भावोत्पादे पर्वतिथ्यादौ कार्यते रक्षण, शिक्षणमपि च तस्य क्रियते श्रीयकादेरिव यथा यक्षादिकाभिरार्यादिभिः, तन्नषोऽपि विकल्प सर्वथाऽयुक्त इति युक्ता तत्रापि विभाषा। न च कोऽपि प्रत्याख्याता यथा तथा पूर्वोक्तनीत्यतिक्रमेण ददाति प्रत्याख्यान, भवतु कोऽपि यदि तत्स्वरूपानभिज्ञतयैव, पर भवन्तस्तु न तादृशा , विधाय प्रत्याख्येयपरिज्ञान क्रियता विरति । न च कथमप्यस्माभि. कथ्यत एतद्यदुत-अज्ञात्वैव प्रत्याख्येय कुर्वन्तु प्रत्याख्यान, किं तु ज्ञात्वैव, सम्पाद्यत एव च वार्त्तमानिकसाधुभि सर्वे प्रत्याख्येयाना पापस्थानानामशनादीनामज्ञानादीना च सम्यक्तया परिज्ञान, तत्सम्पाद्य तत्प्रत्याख्येयम् । अन्यच्च-न स्याज्ज्ञान तथाविध, तथापि विशिष्टता चेद्भवता, शुद्विरेव, न किमपि प्रतिकूल किन्तु ज्ञातेवाखिलेष्टसिद्धिर्भाविनी वोधस्याभावेऽपि, तथा